आनन्दमयस्याप्यनात्मतामाचष्टे, कादाचित्केति ।
कादाचित्कत्वतोऽनात्मा स्यादानन्दमयोऽप्ययम् । |
अयमानन्दमयो भोक्ताऽत्मा न स्यात् । कुतः? कादाचित्कत्वतः नैरन्तर्याभावात् । प्रियमोदादिविकाराश्रयत्वादित्यर्थः । अन्नमयादिकोशपञ्चकस्यानात्मत्वे आत्मविषयकनैराश्यमेव पतेदित्यत आह, बिम्बेति । विम्बभूतो यस्यानन्दस्य प्रतिबिम्बभूतान् मनुप्यानन्दमारभ्य ब्रह्मानन्दपर्यन्तानन्यानानन्दानास्वादयन्नकामहतः श्रोत्रियाग्रणी " र्हा वु हाव्वि"ति साम गायन्नास्ते असौ बिम्बभूतोऽधिष्ठानभूतोऽद्वितीयोऽसावानन्द आत्मा भवति । तत्र कारणप्राह । । सर्वदा स्थितेः। कालत्रयेऽपि विकारमनापद्य सत्त्वात् । सततं गच्छतीत्यात्मा यद्वा, आग्नोतीत्यात्मा । यद्वा अतीत्यात्मा । अद्यत इतिवाऽत्मा ॥ १० ॥
नन्वन्नमयादीनामात्मत्वं युक्त्या माभूत्।अन्यस्यात्मनोऽननुभूयमानत्वे नात्मविषयिकनैराश्यं पुनस्तदवस्थमेवेति पूर्वपक्षमवतारयति,नन्विति ।
ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु । |
ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु निद्रायां य आनन्दः स एवान्तो येषां तेष्वन्नमयकोशमारभ्य सौषुप्तिकसुखान्तमनुभूयमानेषु वस्तुष्षात्मत्वं मा भूत्। तेषामनात्मत्वं युक्तया सुसाधं भवतु नाम; अन्यस्तु कश्चित्तेभ्यो भिन्न आत्मा नानुभूयते; अत आत्मवस्तु नास्येवेति पूर्वपक्षः ॥ ११ ॥
श्लोकदशकेन पूर्वपक्षं परिहरति। आदौ तत्र देहादिनिद्रान्तानामनुभवित्रा केनाचिदन्येन भवितव्यमित्याह, बाढमिति ।
बाढं निद्रादयः । सर्वेऽनुभूयन्ते न चेतरः । |
निद्रादयोऽनुभूयन्ते इतर आत्मा नानुभूयत इति यत्ते मुग्धवचः तद्बाढं सत्यमित्यर्धाङ्गीकारे । तथाऽपि येनैते निद्रादयोऽनुभूयन्ते । तं ज्ञातारं को