निवारयेत् ? आत्मन्यनुभूयमानेऽपि निद्रानन्दादिसर्वव्यवहाराणामनुभविता कश्चिद्विद्यत इत्यवश्यमभ्युपगन्तव्य इत्यर्थः ॥ १२ ॥
स्वयंप्रकाशस्वरूपस्यात्मनो वेद्यत्वनिरासः ।
अनुपलब्धेरात्मनोऽसत्वमिति शंकामपनुदति, स्वयमिति ।
स्वयमेवानुभूतित्वाद्विद्यते नानुभाव्यता । |
आत्मनः स्वयमेवानुभूतित्वात् साक्षितयानुभवरूपत्वात्तस्मिन्ननुभाव्यता अन्यानुभवगोचरत्वं न विद्यते । अस्मिन्नेव सर्वे व्यवहारा विषयाः । विषयता च विषयिणमपेक्षते । स्वस्मिन् स्वं विषयो भवितुं नार्हति। अतस्तस्यानुभवरूपस्यानुभवविषयत्वं नास्तीति भावः । अत्रोपपत्तिं दर्शयति, ज्ञात्रिति, ज्ञातृज्ञानान्तराभावात् तद्वस्त्वतिरिक्तयोर्ज्ञातृज्ञानयोरभावादज्ञेयः, न त्वसत्तया न तु तस्याभावात् । ज्ञेयातिरिक्तयोर्ज्ञातृज्ञानयोः सत्वे ज्ञेयत्वव्यवहारो दृष्टः । प्रकृते तदभावादज्ञेय इत्युच्यते ॥ १३ ॥
अनुभवस्यानुभवितृसापेक्षत्वनियमात्, ज्ञात्रभावादिति हेतुरसिद्ध इति शंकां दृष्टान्तपूर्वकं तन्नियमाभावप्रदर्शनेन परिहरति, माधुर्येति ।
माधुर्यादिस्वभावानामन्यत्र खगुणार्पिणाम् । |
अन्यत्रापूपाद्यन्यवस्तुषु स्वगुणार्पिणां स्वस्यमाधुर्यादिगुणानामर्पणं कुर्वतां माधुर्यादिस्वभावानां माधुर्यादिधर्माणां स्वस्मिन्नेव तदर्पणापेक्षा माधुर्यादिसंपादनापेक्षा नो नैव विद्यते । अन्यदर्पकं वस्त्वपि नास्ति । अमधुराणां माधुर्यसंपादने मधुरवस्तुसंपर्कोऽभिलषितः। स्वतो मधुरे न तत्संपर्कापेक्षा, तत्र माधुर्यस्य स्वत एव सिद्धत्वात् ॥ १४ ॥
दृष्टान्तं दार्ष्टान्तिके योजयति, अर्पकेति ।