पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१११

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
८५
कल्याणपीयूषव्याख्यासमेता

 यथा मे जिह्वाऽस्ति न वेति कंठत उक्तिसंभाषणं वक्तुः केवलं लज्जायै कल्पते । जिह्वां विना तदुक्तेरसंभवात् । तथैव मया बोधो ज्ञानस्वरूप आत्मा न बुध्यते न ज्ञायते, किंत्वित: परं बोद्धव्य एवेति वचनं तादृशी तथा लज्जाकरी । "न मया बुध्यत” इत्यबोधानुभवस्यापलपितुमशक्यत्वात् ॥ २० ॥

 एवंबोधनिरूपणस्य प्रकृतोपयोगमाह,यस्मिन्निति।

यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे ।
यद्वोधमात्रं तद्ब्रह्मेत्येवं धीर्ब्रह्मनिश्चयः ॥ २१ ॥

 लोके यस्मिन्यस्मिन् घटपटादिज्ञेयवस्तुनि बोधः तद्विषयिकं ज्ञानमस्ति तत्तदुपेक्षणे तस्य तस्य घटपटादेर्ज्ञेयस्य सर्वस्य नेति नेतीति निरसने कृते अवशिष्टं यद्वोधमात्रं ज्ञानमात्रं विद्यते तदेव परं ब्रह्म इत्येवं धीः इत्याकारकं ज्ञानं ब्रह्मनिश्चयः ब्रह्मज्ञानम् । ज्ञानं तद्विषयश्चेति सर्वत्र व्यवहारः सुप्रसिद्धः। तत्र ज्ञानमात्रं परमार्थ वस्तु; अस्मत्प्रत्ययगोचरम् । ज्ञानविषयं सर्वमिदं युष्मत्प्रत्ययगोचरम् । तस्माद्विषयिणो ज्ञानाद्भिन्नम् विषयभूतमिदं सर्वम् ॥ २१ ॥

आत्मनः सत्यत्वज्ञानत्वविचारः ।

 एवं विषयविषयिविभागेनैव ब्रह्मस्वरूपनिश्चये पञ्चकोशविवेकस्य नैरर्थ क्यमित्याशंक्य ब्रह्मणः प्रत्यग्रूपत्वज्ञानमन्तरा संसारानिवृत्तेस्तथात्वज्ञानोपयोग्ययं पञ्चकोशविवेक इत्याह, पञ्चति।

पञ्चकोशपरित्यागे साक्षिबोधावशेषतः।
स्वस्वरूपं स एव स्याच्छून्यत्वं तस्य दुर्घटम् ॥ २२ ॥

 पञ्चकोशपरित्यागे अनात्मत्वधिया तेषां निराकरणे सति साक्षिबोधाव शेषतः साक्षिरूपस्य अवशेषतः स एव स्वस्वरूपं ब्रह्मणः स्वीयं रूपं स्यात् । पञ्चकोशादीनां परिशिष्टं शून्यमेवासीदिति बौद्धमतमाशंक्याह, शून्यत्वमिति । तस्य साक्षिबोधस्य शून्यत्वमत्यन्ताभावो दुर्घटम् । शून्यसत्ताया अपि ज्ञानसापेक्षत्वात्, सर्वत्र ज्ञानस्यैव साक्षिरूपत्वात् । कुत्राप्यसाक्षिकस्य ज्ञेयस्यानिरूप्यत्वादित्यभिप्रायः ॥ २२ ॥