पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२१

पुटमेतत् सुपुष्टितम्

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

द्वैतविवेकप्रकरणम् ।


 प्रथमे प्रकरणे निरूपितं तत्त्वं यद्विवेकात् ज्ञायते तन्निरूपणं प्रकरणद्वयेन कृतम्। विषयस्यैक्यादेकेनैव प्रकरणेन निरूपणोये प्रकरणद्वयेन निरूपणं किंफलकमित्याशंक्य निरूप्यमाणाभ्यां द्वाभ्यां प्रत्येकं विवेकस्य भिन्नफलकत्वाद्भिन्नफलानुरोधेन प्रत्येकं निरूपणमावश्यकमिति पृथक् प्रकरणाभ्यं निरूपितम् । प्रत्येकनिरूपणस्य फलभेदनिरूपणाय प्रकरणद्वयनिरूपितयोद्वेददर्शनपूर्वकमेतत्प्रकरणप्रतिपाद्यं प्रतिजानीते, ईश्वरेणापीति ।

ईश्वरसृष्टद्वैतवर्णना ।

  ईश्वरेणापि जीवेन सृष्टं द्वैतम् विविच्यते ।

 यो मायाबिम्बो वशीकृतमायस्तेनेश्वरेणाऽविद्यावशगेन जीवेन च यत् सृष्टमुत्पादितं द्वैतं जगत् तदस्मिन् प्रकरणे विविच्यते । अनेन द्वितीयप्रकरणोक्तमीक्षणादिप्रवेशान्तसृष्टिरूपं द्वैतमीश्वरसृष्टम्, तृतीयोक्तं जाग्रदादिविमोक्षान्तं जीवसृष्टमिति च विभागज्ञापनाय प्रकरणद्वयेन प्रतिपादनमिति सूचितम् । यद्यपि जीवेश्वरयोरुभयोरपि जगत्स्रष्टत्वे प्रतिपिपादयिषितेऽपिशब्दो जीवनेत्यनन्तरं पठितुंयुक्तः । समुच्चयद्योतकस्य समुच्येयार्थबोधकपदोत्तरं पाठनियमात् । तथाऽपि बहूनां जीवस्य जगत्सष्टृत्वे विप्रतिपत्त्यभावादीश्वरस्रष्टृत्वमात्रविप्रतिपत्तेः परिहारसूचनायेश्वरस्यापि स्रष्टृत्वं स्फोरयितुमीश्वरपदोत्तरमपिशब्दप्रयोग इति बोध्यम् ।

 विवेचनप्रयोजनमाह, विवेकइति ।

  विवेके सति जीवेन हेयो बंधः स्फुटीभवेत् ॥ १॥