विवेके कृते सति जीवेन हेयः परित्याज्यो बंधग्तत्कारणं द्वैतं स्फुटीभवेत् ॥१॥ ननु जीव एव स्वादृष्टसहकारेण जगत्सृजति । न तत्रेश्वरापेक्षा । तथा सतीश्वरेणाऽपि सृष्टं जगदिति कथमुच्यत इत्याशंकां परिहर्तुमीश्वरस्य जगत्स्रष्टृत्वं प्रमितमित्याशयेन प्रमाणभूतां श्रुतिमुदाहरति, मायेति ।
मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम् । |
मायां तु प्रकृतिं विन्द्यात् जानीयात् । महेश्वरं तदुपाधिकममेय-जगद्रचनाकुशलं महान्तमीश्वरं मायिनं विन्द्यादित्यनुयर्थते । स मायी जगत्सृजतीति श्वेताश्वतरशाखिन आहुः । “मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरे। तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्" । श्वेत- (४- १०.) इति श्रुतिः ॥ २ ॥
एतदर्थिकामैतरेयश्रुतिमर्थतः पठति, आत्मेति ।
आत्मा वा इदमग्रेऽभूत्स ईक्षत सृजा इति । |
अग्रे प्राक् सृष्टेरिदं जगदात्माऽभूत् । स आत्मा सर्वज्ञो लोकान् सृजै उत्पादयानीतीक्षत संकल्पयामास । सर्वज्ञत्वादकरणोऽपीक्षत यथोपकरणमन्तरेण मायावी स्वमायया नगरादिकल्पनां विजृंभयति । “अपाणिपादो जवनो गृहीता” इति (श्वेत ३. १९.)। एवं संकल्पेन स आत्मा एतान् लोकानसृजत् यथा गृहनिर्माणकर्ता सर्वं निर्माणविधानं मनस्यादौ निश्चित्य पश्चात् कार्योन्मुखो भवति तथेति बहूवृचाः ऋक्शाखिनः “ आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किंचन मिषत् । स ईक्षत लोकान्नु सृजा इति स इमान्लोकानसृजत” (ऐत. १-१) इत्यूचुरितिशेषः ॥ ३ ॥
उक्तार्थे तैत्तिरीयश्रुतिं प्रमाणयति, स्वमिति ।
खं वाय्वग्निजलोर्व्योषध्यन्नदेहाः क्रमादमी । |