पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२८

पुटमेतत् सुपुष्टितम्
१०२
[द्वैतविवेक
पञ्चदशी

 एवं विनियोजितानि सप्तान्नानि नामतो निर्दिशति, व्रीहीति ।

व्रीव्ह्यादिकं दर्शपूर्णमासौ क्षीरं तथा मनः ।
वाक् प्राणश्चेति सप्तत्वमन्नानामवगम्यताम् ॥ १६ ॥

 व्रीह्यादिकं मर्त्येभ्यो विनियोजितमन्नम् । तथा दर्शपूर्णमासौ देवेभ्यो विनियोजिते, क्षीरं पशुभ्यो विनियोजितम्, मनो वाक् प्राणश्चेति त्रितयमात्मने विनियोजितम् । एवमन्नानां सप्तत्वमवगम्यताम् ॥ १६ ॥

 ननु सप्तान्नानि जगदन्तःपातित्वादीश्वरनिर्मितानि भवन्ति । एवं सति तेषां जीवसृष्टत्वाभिमानमयुक्तमित्याशंक्य तेषां स्वरूपमीश्वरसृष्टं भोग्यत्वाका रस्तु जीवसृष्टः । तन्मात्रेण तत्सृष्टत्वव्यवहार इत्याह, ईशेनेति ।

ईशेन यद्यप्येतानि निर्मितानि स्वरूपतः।
तथापि ज्ञानकर्मभ्यां जोवोऽकार्षीत्तदन्नताम् ॥ १७ ॥

 स्पष्टोऽर्थः ॥ १७ ॥

   मनसों जीवस्य बन्धकारणत्वोक्तिः ।

 फलितमीह, ईशेति ।

ईशकार्यं जीवभोग्यं जगद्द्वाभ्यां समन्वितम् ।
पितृजन्या भर्तृभोग्या यथा योषित्तथेष्यताम् ॥ १८ ॥

 जगत्स्वरूपत ईशकार्ये ईश्वरकारणजन्यम् । जीवभोग्यं जीवेनानुभवयोग्यं कृतम् । एवं द्वाभ्यामीश्वरकार्यत्वजीवभोग्यत्वाभ्यां समन्वितम् । तत्र दृष्टान्तमाह पित्रिति । स्पष्टमन्यत् ॥ १८ ॥

 ईश्वरजीवयोर्जगत्सर्जने किं साधनमित्यत आह, मायेति ।

मायावृत्यात्मको हीशसंकल्पः साधनं जनौ ।
मनोवृत्त्यात्मको जीवसंकल्पो भोगसाधनम् ॥ १९॥