पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३१

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१०५
कल्याणपीयूषव्याख्यासमेता

स्नुषेयादिज्ञानानि भिद्यन्ताम् ; योषित आकारस्तु न भिद्यते । तत्र कारणमाह, योषिदिति । योषिद्वपुषि जीवनिर्मितोऽतिशयो भोग्याकारभेदो न दृष्टः । एवं चाकारभेदो न दृष्टान्ते सिध्यति ॥ २४ ॥

 सिद्धान्ती परिहरति, मैवमिति ।

मैवं मांसमयी योषित्काचिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भिद्यते हि मनोमयी ॥ २५॥

 मैवं योषिद्विषय आकारभेदो नास्तीत्येवं माऽक्षिपतु । मांसमयी मांस- विकारा स्थूलदेहविशिष्टा योपित्काचित् ; मनोमयी मनोविकारा योषित्ततोऽन्या भिन्ना । मांसमय्याः योषितोऽभेदेऽपि मनोमयी योषिद्भिद्यत एव । हि निश्च- यार्थे। ज्ञानगोचरा योषिन्मांसमय्या भिद्यते । तत्र प्रतियोगिनां ज्ञानान्ययन्त विलक्षणानि । अवैलक्षण्ये यस्य भार्यात्वेन ज्ञानं तस्यैव स्नुषात्वेन ज्ञानं प्रसज्येत । नैतदस्ति । अतस्तत्तप्रतियोगिज्ञानानि सर्वदाऽत्यन्तविलक्षणानीत्यभ्युपेयम्। ज्ञान वैलक्षण्यं तु ज्ञेयवैलक्षण्यमन्तरा न सिध्यति । अतस्तत्तत्ज्ञेया योषिदत्यन्तविलक्ष- णेत्यभ्युपेयम् । न च ज्ञेयमांसमययोषिदभिन्नैवेति भ्रमितव्यम् । तस्याः स्त्ररूपेणा ज्ञेयत्वात् । ज्ञेया तु तदाकाराकारिता चित्तवृत्तिरेव । तस्या एवाऽन्तराया आन्तरे चैतन्ये प्रतिफलनसंभवात् । चैतन्यतत्प्रतिफलनमेव ज्ञानमिति सिध्यति । एवं च तदाकाराकारिता मनोमयी चितवृतिरूपैव योषिज्जीवोपभोग्या । चित्तवृत्तीनां नानात्वात् भोग्ययोषिन्नानात्वं सिध्यतीति भावः ॥ २५ ॥

 ननु भ्रान्तिस्थले बाह्यवस्तुनोऽभावान्मनोमयसृष्टिरभ्युपेयताम् जाग्रति बाह्यवस्तुसद्भावान्मनोमयसृष्टिः किमित्यभ्युपेयत, इति शंकते,भ्रान्तीति ।

भ्रान्तिस्वप्नमनोराज्यस्मृतिष्वस्तु मनोमयम् ।
जाग्रन्मानेन मेयस्य न मनोमयतेति चेत् ॥ २६ ॥

 भ्रान्तिस्वप्नमनोराज्यस्मृतिषु मनोंमयं मनःकल्पितं योषिदाकारादि वस्त्वस्तु नाम । तत्र बाह्यवस्तुनोऽभावाद्विषयमन्तरा ज्ञानासंभवात् विषयसंपत्तये मनोमयं वस्तु किंचिदङ्गीक्रियतां नाम । किंतु जाग्रन्मानने जाग्रति जाग्रदवस्थायां मानेन

14