पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३६

पुटमेतत् सुपुष्टितम्
११०
[द्वैतविवेक
पञ्चदशी

 एकस्याप्युपदेशस्योपदेश्यानां बुद्धिभेदादर्थभेदकल्पनाभेदकृतेन भावनाभेदेन ते चतुर्विधाः। माध्यमिकयोगाचारसौत्रान्तिकवैभाषिका इति। ते यथाक्रमं सर्वशून्यत्वबाह्यशून्यत्वबाह्यार्थानुंमेयत्वबाह्यार्थप्रत्यक्षत्ववादानवलंबन्ते । तत्र बाह्य- शून्यत्ववादिनो योगाचारा विज्ञानैकस्कन्धवादिनः । स्कन्धशब्दस्तु पदार्थपरः ॥

 तेषां मते वेदानाऽङ्गीक्रियते । अन्यथा जगदान्ध्यप्रसक्तेः । वेदनं चात्मा। बाह्यं वस्त्ववास्तवम् । नान्योऽनुभवादनुभाव्योऽनुभविताऽनुभवनं वा । विज्ञाना- दन्यत्सर्वमवास्तवमेव । बुद्धिकल्पितेन रूपेणान्तःस्थमेव नीलाद्याकारत्वेन प्रमेयं; प्रमेयप्रकाशात्मत्वेन प्रमाणफलम् ; प्रमेयप्रकाशनशक्तयात्मतया प्रमाणम्; शक्त्या- श्रयत्वाकारेण प्रमातेति; प्रमाणप्रमेयादिभेदकल्पनेन सर्वो हि व्यवहारः । बाह्यार्थस्य बुद्ध्यारोपामन्तरा प्रमाणादिव्यवहारायोगाद्बुद्धिस्थाकार एव मेयं न तु बाह्यं वस्तु ॥

 विज्ञानातिरिक्तो बाह्यार्थो नास्ति । यदि विद्यते, उत्पन्नोऽनुत्पन्नोऽतीतो वा? नाद्यः; उत्पन्नस्य क्षणिकत्वेन । तदुत्तरक्षणेऽविद्यमानत्वात् ; उत्पत्तिक्षणे ज्ञानाविषयत्वात्; कारणस्य कार्यनियतपूर्ववृत्तित्वनियमात् । न द्वितीयः; अविद्य- मानस्यार्थस्य ज्ञानजनकत्वासहत्वात् ; नापि चरमः; अतीतस्यापि पदार्थस्याविद्य- मानस्य ज्ञानजनकत्वसंबधंत्वादिति चेदिन्द्रियाणामपि ज्ञानसाधनत्वेन ज्ञानजनक त्वात् ॥

 यदि बाह्यार्थो ज्ञानविषयो भवति, किमवयविभूतो घटादिः उतैकदेशभूतः परमाणुः ? न द्वितीयः ; एकदेशभूतपरमाणुदर्शने घटोऽयं दृष्ट इति न कोऽपि जानाति । नाद्यः; कृत्स्नस्य घटादेरिन्द्रियसंबंधाभावात्; भिन्नत्वाभिन्नत्व- विवक्षाशक्यत्वाच्च । घटादिः परमाणुभ्यो भिन्नोऽभिन्नो वा ? यदि भिन्नोऽत्यन्त- वैलक्षण्यम् ; यद्यभिन्नो घटादे: परमाणुमात्रतया घटादिस्थूलरूपेणावभासनासंभवः अन्याभासोऽन्यगोचरो न भवति । एवं सान्तरेषु वृक्षेषु वनैकप्रत्ययवदेष स्थूलघट- प्रत्ययो भ्रान्त एव : परमाणोरिन्द्रियागोचरत्वात् । यदि तस्येन्द्रियगोचरत्वं तस्य निरंशत्वव्याघातः । निरंशस्य परमाणोर्दिशां षट्केन सह युगपत्संबंधो दुस्साधः । यदि भवति तस्य निरंशत्वव्याकोपः ।