पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४८

पुटमेतत् सुपुष्टितम्
१२२
[द्वैतविवेक
पञ्चदशी

 एवं कृत्वोपहासं सुहृद्भूत्वोपदिशति, विदिति ।

विड्वराहादितुल्यत्वं मा कांक्षीस्तत्त्वविद्भवान् ।
सर्वधीदोषसंत्यागाल्लोकैः पूज्यश्च देववत् ॥ । ५७ ॥ ।

 भवान् तत्ववित् । तत्वतो यदि ज्ञानी स्यात् विड्वराहादितुल्यत्वं ग्रामसूकरादिजन्तुसमतां मा कांक्षीः सर्वधीदोषसंत्यागात् कामक्रोधाद्यशेषबुद्धि- दोषपरित्यागाल्लोकैर्देववत् पूज्यश्च भव । लोकपूज्यतामाप्नुहि । कामादिधीदोषपरिस्त्यागेनैव तत्त्वविदो लोके पूज्यता। तदत्यागे तु वस्तुतस्तत्त्वज्ञानित्वाभावेन विड्वराहादिभिस्समं लोकगर्ह्यत्वमेव स्यात् । अतो ह्यैहिककामादीनामपि हेयतावश्यमभ्युपेया। अन्यथा लोकनिंदास्पदतैव भवतीति तात्पर्यम् । एतेनैहिककामादीनामपि हेयत्वमावश्यकमिति सुप्रतिपादितम् ॥ ५७ ॥

 ऐहिककामा अपि त्याज्या इत्युक्तम् । तत्त्यागोऽशक्य इत्याशंकामुपाय प्रदर्शनेन परिहरति, काम्यादीति ।

काम्यादिदोषदृष्टयाद्या: कामादित्यागहेतवः।
प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव ॥ ५८ ॥

 काम्यादिदोषदृष्ट्याद्याः काम्यानि कामनाविषयानीष्टानि स्रक्चंदनादीनि; आदिशब्देन द्वेष्यान्यनिष्टानि शत्र्वादीनि गृह्यन्ते । इष्टान्यनिष्टानि चेत्यर्थः; तेषु मनःक्लेशकारितया क्षयित्वादिजीवबंधहेतुत्वरूपो यो दोषो विद्यते तस्य दृष्टिः परिज्ञानम् । आदिशब्देन दोषदर्शनान्तरं तत्परिहाराय कर्तव्ययत्नवैविध्यादिकं सूचितम् । ते कामादित्यागहेतवः कामादीनां त्यागे कारणानि; इत्ययमंशो न स्वकपोलकल्पित इत्याशयेने श्रुतिसम्मतं तेषां त्यागहेतुत्वमित्याह, प्रसिद्धा इति । उपनिषदादिषु मोक्षशास्त्रेषु प्रसिद्धाः । अतस्तान् दोषान् प्रयत्नादन्विष्य सविमर्शं परीक्ष्य सुखी भव। तद्वारा तत्यागेन सुखी भव मोक्षानन्दमाप्नुहि ॥ ५८ ॥

 ननु बाह्यविषयिकाः कामादयः परिह्रियन्ताम् । मनोभावरूपाणामपि तेषां त्यागाभावे का क्षतिरित्याशंक्याह, त्यज्यतामिति ।

त्यज्यतामेष कामादिर्मनोराज्ये तु का क्षतिः।
अशेषदोषबीजत्वात् क्षतिर्भगवतेरिता ॥ ५९॥