पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५४

पुटमेतत् सुपुष्टितम्
१२८
[महावाक्य
पञ्चदशी

वाक्यानां मध्ये सुव्यक्तं सुसूक्ष्मं सर्ववेदान्तार्थसारभूतब्रह्मात्म्यैक्यरूपार्थबोधकत्वादे- तेषां महत्त्वम् । यद्वा, आत्यन्तिकनिःश्रेयसप्राप्तिप्रदर्शनात्, यद्वा अन्यैर्दु:खेनापि लब्धुमशक्यार्थस्य मुमुक्षोरनुग्रहार्थं वेदान्तार्थस्य सुखेनाविष्करणात् । यद्वा यन्नि- श्चयज्ञानमलभमाना आसृष्टेर्नचिकेतःप्रभृतयो जिज्ञासवः संदिहन्ति स्म, तन्निश्चय संपादकत्वात् , यद्वा, अन्यासां ब्रह्मात्म्मैक्यस्वरूपप्रकटनपराणामपि भिन्नार्थतया भासमाननामुपनिषदामेकवाक्यतासंपादकत्वात् , यद्वा क्रिय कारकफलभेदसंकुलं सकंटकं कर्मारण्यमुत्सृज्यात्मज्ञानारामविहारोपकारकसन्यासपूर्वकब्रह्मनिष्ठाप्रवेश- नायानुज्ञापत्रायितत्वात् । वस्तुतो निर्दिष्टहेतुसमुदायरूपधर्मपूगमेव निदानमेतेषां महत्त्वे इति प्रतिभाति ।

प्रज्ञानं ब्रह्मेति वाक्यार्थविचारः।

 तेषां मध्ये प्रथमत ऐतरेयान्तर्गतस्य, "प्रज्ञानं ब्रह्मेति", महावाक्य- स्यार्थं प्रतिपिपादयिषुर्वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वात्तघटकप्रज्ञानपदार्थो निश्चेय इत्यैतरेयश्रुतिमर्थतः, पठति, येनेति ।

येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।
स्वाद्वस्वादू विजानाति तत्प्रज्ञानमुदीरितम् ॥ १॥

 ब्रह्मवादिनो मुमुक्षुवः परिषदि तत्त्वं विचारं कुर्वन्त आत्मनः स्वरूपं प्रति मिथोऽपृच्छन् “ कोऽयमात्मेति वयमुपास्महे ? कतरः स आत्मेति ?” (ऐ.५.१) विद्यते हि तत्र प्रश्नावकाशः । तथाहि, नित्यशुद्वधबुद्धमुक्तस्वभावो निरुपाधिक आत्मेति निगमान्तवाक्यैर्बोध्यते । प्रतिदिनमनुभूयतेऽस्मत्प्रत्ययगोचरश्चक्षुरादीन्द्रि- योपाधिः कार्यकरणसंकीर्णः कश्चिच्चेतनात्मक आत्माभिधानः । तयोरभेदो भेदो वा ? अन्ये कोऽत्रास्माभिरुपास्य इति परिषदि विचारे प्रसक्तिः । एवं स्थिते, निश्चितमात्मस्वरूपमेव प्रज्ञानशब्दाभिधेयमित्याह, येनेति । येन चक्षुर्मार्गनिर्गता- न्तःकरणवृत्युपहितेन चैतन्येनेदं चक्षुर्विषयं रूपमीक्षते पश्यति पुरुष इति शेषः येन श्रोत्रेन्द्रियमार्गनिर्गतान्तःकरणवृत्तिप्रतिबिंबितेन चैतन्येन तद्विषयं शब्दं शृणोति; येन घ्राणेन्द्रियसंपृक्तान्तकरणवृत्तिप्रतिबिंबितचैतन्येन तद्विषयं गंधं