पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१२९
कल्याणपीयूषव्याख्यासमेता

जिघ्रति; तथैव येन वागिन्द्रियव्यापृतान्तःकरणवृत्तिप्रतिफलितेन तेनैव व्याकरोति संभाषणादिकं निर्वर्तयति, येन जिह्वेन्द्रियव्यापृतान्तःकरणवृत्तिप्रतिबिंबितेन तेनैव स्वाद्वस्वादू विजानाति । अत्रानुक्तसमुच्चायकेन चशब्देन त्वक्पादादिबहिरिन्द्रिय वृत्तीनामान्तरमनोबुद्धिवृत्तीनां च संग्रहेण तदुपहितचैतन्येन तत्तद्विषयाभिव्यंजन- मुक्तं भवति । सन्ति बह्व्यो वृत्तयो मनोबुद्धिभेदभिन्नान्त:करणस्य । संज्ञानेन सम्यग्वस्तुस्वरूपं जानाति । आज्ञानेनाज्ञापयति भृत्यादीन्, विज्ञानेनाशेषकळा- कौशलमातनोति, प्रज्ञानेन शास्त्रार्थावगमेन नवनवोन्मेषमाकश्यति, तदर्थानत्रगतान् मेधया धारयति, आपदि धृत्येन्द्रियाण्युतंभयति, मत्या सूक्ष्मान् राजनीतिविषया नालोचयति, तत्र मनीषया प्रदर्शयति स्वातन्त्र्यम् , भीत्या प्राप्तावसरेषु कार्येषू द्विग्नतामाप्नोति, स्मृत्याऽनुभूतपूर्व वस्तु स्मृतिपथमानयति, कर्तव्येषु संकल्पेन साधनसामग्रीमं सम्यक् परिकल्प्य तदवश्यकर्तव्यतायां व्यवसायी भवति, प्राण- वायोस्संचलनेन प्राणिति, कामेनाकांक्षते, याति काम्यविषयवश्यतान् । एवं सात्विकराजसतामसान्मनोविकारानन्यांश्च बाह्यविषयान् यच्चैतन्यमभिव्यंजयति तच्चैतन्यमात्मरूपं । “संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेया दृष्टिर्वृतिर्मतिर्मनीपाजूतिः स्मृतिः संकल्पः क्रतुरसु: कामो वश इति सर्वाण्येतानि प्रज्ञानस्य नामधेयानि भवन्ती"ति (ऐत.३.२.) श्रुतिः । प्रकृष्टज्ञानरूपत्वात्प्रज्ञानमित्युदीरितमुक्तं भवति । अत्रैतरेयान्तर्गतः “कोऽयमात्मेति वयमुपास्महे" (३.१.) इत्यादिमन्त्र वर्णः समीक्षितव्यः ॥ १ ॥

 अथ ब्रह्मशब्दार्थं विवृणोति चतुर्मुखेति ।

चतुर्मुखेंद्रदेवेषु मनुष्याश्वगवादिषु ।
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २ ॥

 चतुर्मुखेन्द्रदेवेषु चतुर्मुखः “हिरण्यगर्भःसमवर्तताग्रे” (ऋ सं. १०.१२१.१) इत्यादिशास्त्रप्रसिद्धः सृष्टिकर्ता प्रथमशरीरी । इन्द्रः सुकृतफलपरिपाकेन देवराजपदमावेशितोऽकामहतः श्रोत्रियाग्रणीः, देवाश्च, तेषूत्तमजन्मषु । मनुष्याश्व गवादिषु, मनुष्या मध्यमजन्मानः । अश्वगवादयोऽधमजन्मानः। आदिशब्देनांड जादिक्षुद्रमिश्राण्युदीरितानि । तेषु, यत्प्रतीयते चैतन्यं तदेकमेव । चतुर्मुखादिसर्वो.

17