पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६१

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१३५
कल्याणपीयूषव्याख्यासमेता

स्यैव सृष्टिशब्दाभिधेयत्वात् । नामरूपयोर्मिथ्यात्वात्तयोरपहोयमानयोः, सदेवाव- शिष्यते । एतदर्धमेव “सदेव सोम्येदमग्र आसीदि"ति छांदोग्यमंत्रप्रकरणे (६.२.१.) सम्यक्प्रदर्शितम् । तदर्थविचारणा च, द्वितीयप्रकरणे २५-३९ श्लोकव्याख्यानावसरे सम्यक्कृतेति नाऽत्राभ्यस्यते ॥ ५ ॥

 अनन्तरं त्वंपदार्थ उच्यते, श्रोतुरिति ।

श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् ।।
एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६ ॥

 श्रोतुः “श्वेतकेतो” इति श्रोतारं प्रति संबोधनं क्रियते तस्य श्वेतकेतोरिव मुमुक्षोर्देहोन्द्रियातीतं शरीरत्रयाद्भिन्नं साक्षितया भासमानं वस्त्वत्र महावाक्ये त्वंपदेरितं त्वंशब्देन बोधितम् । असीति शब्देनैकता तत्वं शब्दार्थयोरेकता ग्राह्यते । तत् एवं वाक्यार्थभूतं तत्त्वंपदार्थयोः प्रत्यग्ब्रह्मणोस्स्वत: प्रसिद्धमैक्यं । मनननिदिध्यासपूर्वकमनुभूयताम् । साक्षात्क्रियताम्। नेदं परमरहस्यं केवल- शास्त्रचर्चया गोचरीकर्तव्यः, किं तु जीवन्मुक्तैस्साक्षात्कार्य इत्यनुभूयतामिति। शब्दस्वारस्यम् ॥ ६ ॥

‘अयमात्मा ब्रह्मेति” महावाक्यार्थविचारः ।

 अनन्तरमाथर्वणिक "मयमात्मा ब्रह्मे" तिक्रमप्राप्तं तुरीयं महावाक्यं विवृणोति । आत्मोपलब्धिसाधनत्वेन निर्णेयस्यौंकारस्य श्रैष्ठ्यकथनाय प्रवृत्तायां मांडूक्यश्रुत्यां द्वितीयमन्त्रे श्रूयत इदं वाक्यम् । तत्रादावयंशब्दार्थमाचष्टे, स्वेति ।

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ॥ ६॥

 अयमितिविवक्षितार्थप्रतिपत्तये ज्ञानिनां हृत्पुंडरीक एवोपलब्धत्वादंगुळ्याः हृदयदेशानयनपूर्वकाभिनयेन उक्तितः दर्शनपूर्वकं कथनेन स्वप्रकाशापरोक्षत्वं स्वप्रकाशेनापरोक्षत्वं प्रत्यगात्मनो मतमभिमतम् । एतेनात्माऽपरोक्षोऽक्षाणामगोचर श्चेति सूचितः । स्वप्रकाशोऽत एव ; हृत्पुंडरीके भानादपरोक्षः । स्वयमनुभूतित्वा- द्घटादिवदिन्द्रियजन्यज्ञानाविषयोऽत एवाऽगोचरः ॥ ६ ॥