पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६२

पुटमेतत् सुपुष्टितम्
१३६
[महावाक्य
पञ्चदशी

 अनन्तरमात्मशब्दार्थमाह, अहमिति ।

अहंकारादिदेहान्तात्प्रत्यगात्मेति गीयते ॥ ७ ॥

 अहंकारादिदेहान्तादहंकारः कर्तृत्वाऽभिमानः । तदादिदेहान्तः देहेन्द्रिय मनोबुद्धिसंघातः । तस्मात् प्रत्यगान्तरोऽहंकाराद्यधिष्ठानतया साक्षितया च स्थितः स आत्मेति गीयते आत्मशब्देन प्रतिपाद्यते । स्थूलसूक्ष्मकारणशरीराधिष्ठानत्वेन यस्साक्षी हृदि प्रकाशते स आत्मेति भावः ॥ ७ ॥

 अथ ब्रह्मशब्दार्थमाह, दृश्येति ।

दृश्यमानस्य सर्वस्य जगतस्तत्वमीर्यते ।
ब्रह्मशब्देन तद्रह्म स्वप्रकाशात्मरूपकम् ॥ ८ ॥

 रज्जुसर्पादिवद्दृश्यमानस्य मायाकल्पितस्यात एव मिथ्यारूपस्याकाशादेः सर्वस्य जगतस्तत्त्वं यथार्थस्वरूपमधिष्ठानं महावाक्यगतब्रह्मशब्देनेर्यते कथ्यते । एवं पदार्थमुक्त्वा वाक्यार्थं दर्शयति । तदिति । अत्र तच्छब्देनात्मा परामृश्यते । नपुंसकनिर्देशस्तु ब्रह्मशब्दसामानाधिकरण्यात् । सामानाधिकरण्येनाऽन्वयबला द्ब्रह्मत्मनोरैक्यमवगम्यते । एवं च ब्रह्मात्मैक्यम् वाक्यार्थ इति फलितम् । ऐक्यनिश्चये हेतुं विशेषणमुखेन विशदयति, स्वप्रकाशात्मरूपकमिति । पदद्वयप्रतिपाद्यार्थस्य स्वप्रकाशात्मरूपकत्वाविशेषादैक्यं सुस्थम् । । एवं सति, तत् आत्मा ब्रह्म तच्च स्वप्रकाशात्मरूपकमिति योजना ॥ ८ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनात्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं महावाक्य-

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति महावाक्यप्रकरणम् ।