पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६४

पुटमेतत् सुपुष्टितम्
१३८
[चित्रदीप
पञ्चदशी

 पटः स्वतः स्वभावतः शुभ्रः स्वच्छ:, चित्रविलेखनार्थं धौतः अन्नविलेप नाद्धट्टितो भवतेि । मसृणीक्रियत इत्यर्थः, तृतीयात्स्यायां मष्याकारैः मषीमयैर्लेखनी याकारैर्लाम्छितत्स्संपद्यते । मवीति लेखनसाधनीभूतं द्रवद्रव्यम् । घट्टितपटे मष्याचित्रस्य बाह्नाकारमात्रं विलिख्यते । तुरीयावस्थायां यथायोग्यं वर्णपूरणात् । रक्तपीतादिवर्णानां पूरणात् चित्रितत्वादित्यर्थः रंजितः स्यात् ॥ ३ ॥

 दाष्टोन्तिकस्यावस्थाचतुष्टयं विवृणोति, स्वत इति ।

स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः।
सूत्रात्मा स्थूलसृष्टयैव विराडित्युच्यते परः ॥ ४॥

 परः परमात्मा स्वत: स्वभावतः। चित् माययाऽनालिंगितचैतन्यरूपः मायावी मायया युक्तः अन्तर्यामी अन्तः मध्येऽनुप्रविश्य यमयति पृथिव्यादीनि स्वस्वकर्मस्विति तथाविधः। जीवं वा दास्यन्त्रमिव व्याप्तारयति । “य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति ” (बृ. ३.७.१.) “यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरोऽयं सर्वाणि भूतानि न विदुः “ सर्वाणि भूतान्यन्तरो यमयति’ (बृ. ३. ७. १६), अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् (ब्र्.सू. १.२.१९.), इस्यादिभ्यः । सूक्ष्मसृष्टितः सूक्ष्मस्य लिंगशरीरस्य सृष्टेः सूत्रात्मा सूवमिव सर्वानुस्यूत आत्मा यस्य सः समष्ट्युपहित चैतन्यो हिरण्यगर्भः। स्थूलसृष्टयैव स्थूलस्य पंचोकृतभूतोत्थस्य द्वैतस्य सृष्टया विराडित्युच्यते ॥ ४ ॥

 चित्रस्य पट इव समस्तजगतो ब्रह्माधिष्ठानमित्याह, ब्रह्मेति ।

ब्रह्माद्यास्तंबपर्यन्ताः प्राणिनोऽत्र जडा अपि ।
उत्तमाधमभावेन वर्तन्ते पटचित्रवत् ॥ ५॥

 अत्र परे ब्रह्मणि ब्रह्माद्या हिरण्यगर्भादयः स्तंबपर्यन्ताः स्तंबेवाल्पतृणेन परिगतोऽन्तो येषां ते तथाभूताश्च ये प्राणिनो जीवकोटयो जडा अपि अप्राणि तया दृष्टाः पर्वतादयश्च ते सर्वे उत्तमाधमभावेन प्रारब्धानुसारेणोच्चनीचचस्थिति मासाध पटचित्रवत् पटे चित्रवत् वर्तन्ते ॥५॥