चिदाभासस्य चित्रगतवस्त्राभासानुरूपतां श्लोकद्वयेनाह, चित्रेति ।
चित्रार्पितमनुष्याणां वस्त्राभासाः पृथक् पृथक् । |
पृथक् पृथक् चिदाभासाश्चैतन्याध्यस्तदेहिनाम् । |
चित्रार्पितमनुष्याणां चित्रे लिखितानां मनुष्याणां चित्राधारेण चित्रस्य य आधारः पटः तेन वस्त्रेण सदृशा वस्त्राभासाः वस्त्रवदूद्दृश्यमाना न तु तत्कार्य- कारिण इति भावः, ते पृथक् पृथक् कल्पिताः चित्रिताः । चित्रगतानि बहुधा वीक्ष्यमाणानि वस्त्राणि वस्त्रच्छायामात्राण्येव न तु तत्त्वतस्तानीति भाव:।
तथैव चैतन्याध्यस्तदेहिनां चैतन्ये परे ब्रह्मण्यध्यस्ता आरोपिता ये देहिनो देवमनुष्यादयस्तेषां जीवनामानो जीव इति नाम येषां तथाभूताश्चिदा भासाश्चित्प्रतिबिबा: पृथक् पृथक् कल्प्यन्ते । मायया चैतन्यस्याविद्ययाऽन्यधा परिग्रहणमेवात्राध्यासः, यथा रज्जोस्सर्पत्वेन ग्रहणम्। अमो जीवाः वहुधा संसरन्ति संसारमापद्यन्ते ॥ ६-७॥
ननु लोके आत्मनस्संसारित्वं कल्प्यत इत्याशंक्याह, वस्त्रेति ।
वस्त्राभासस्थितान् वर्णान् यद्ददाधारवस्त्रगान् । |
वत्राभासस्थितान् वस्त्रस्याभासेन छायायां स्थितान् प्रतीयमानान् वर्णान रक्तपीतादीन् अज्ञा यद्वद्वदन्ति तथा जीवसंसारं चिद्गतं चितं गतं विदुर्मन्यन्ते । चित्रे प्रकाशमानस्य वस्त्रवर्णस्याधारो मष्याधिकृताकारो न तु चित्रपटः, तथैव जीवभावस्याधारश्चिदाभासो न तु चिदितिभावः ॥ ८॥
गिरिनद्यादीनां चिदाभासाभावे कारणमाह, चित्रेति । |