पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६६

पुटमेतत् सुपुष्टितम्
१४०
[चित्रदीप
पञ्चदशी

चित्रस्थपर्वतादीनां वस्त्राभासो न लिख्यते ।
सृष्टिस्थमृत्तिकादीनां चिदाभासस्तथा न हि ॥ ९॥

 चित्रस्थपर्वतादीनां चिते विद्यमानानां पर्वतादीनां वस्त्राभासो यथा न लिख्यते तथैव सृष्टिस्थमृतिकादीनां जडानां चिदाभासो न हि कल्प्यते ॥९॥

  अविद्यायाः संसारकारणत्वं, विद्यायास्तन्निवारकत्वम् ।

 आत्मनः संसारित्वं मिथ्यामात्रमेवेत्याह, संसार इति ।

संसारः परमार्थोऽयं संलग्नः स्वात्मवस्तुनि ।
इति भ्रान्तिरविद्या स्याद्विद्ययैषा निवर्तते ॥ १० ॥

 अयं संसारः परमार्थः सत्यभूतः स्वात्मवस्तुनि स्वस्वरूपभूते परमात्मनि संलग्न इति भ्रान्तिरविद्या स्यात् । एषाऽविद्या विद्यया "संसारो मिथ्यारूप ” इत्येवं निश्चयरूपया निवर्तते ॥ १०॥

 संसारभ्रान्तिनिवतर्कविद्यास्वरूपमाह, आत्मेति ।

आत्माभासस्य जीवस्य संसारो नात्मवस्तुनः।
इति बोधो भवेद्विद्यया लभ्यतेऽसौ विचारणात् ॥ ११॥

 संसार आत्माभासस्य जीवस्यैव न त्वसंगस्यात्मवस्तुन इति बोधो ज्ञानं विद्या भवेत् । असौ विद्या वेदान्तवाक्यानां विचारणात् लभ्यते ॥ ११ ॥

 विद्यावाप्तये विचारणाविषयमाह, सदेति ।

सदा विचारयेत्तस्माज्जगज्जीवपरात्मनः ।
जीवभावजगद्भावबाधे स्वात्मैव शिष्यते ॥ १२ ॥

 तस्मात् जगज्जीवपरात्मनः सदा विचारयेत् मुमुक्षुभिर्यथा परमात्म स्वरूपविचारोऽवश्यं कर्तव्यस्तथा तदवशेषणाय जगज्जीवस्वरूपविचारोऽपि कर्तव्य इति भावः । जीवभावजगद्भावबाधे जीवस्वरूपस्य जगत्स्वरूपस्य च प्रतिरोधे सति स्वात्मैव सत्यतया शिष्यते ॥ १२ ॥