पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७७

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१५१
कल्याणपीयूषव्याख्यासमेता

 शुक्तिरजतस्थले इदन्त्वरूप्यते शुक्तिवस्तुनि निर्दिश्यमानमिदन्त्वं, तदारोपिता रूप्यता च मिन्ने यथा, तथा कूटस्थे विद्यमानं स्वत्वं, तस्मिन्नरोपिताऽहंन्ता च भिन्ने, इतीष्यताम् । उभयत्राऽपि दृष्टान्तदार्ष्टान्तिकयोस्सामान्यमुभयानुगतो घर्मो विशेषः प्रत्येकमसाधारणो धर्मश्च गम्यते प्रतीतिगोचरो भवति ॥३८॥

 स्वयंशब्दस्य सामान्यार्धेवाचकत्वं लौकिकप्रयोगेन द्रढयति, देवदत्त इति ।

देवदत्तः स्वयं गच्छेत्त्वं वीक्षस्व स्वयं तथा ।
अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यते ॥ ३९ ॥

 देवदत्तः स्वयं गच्छेत्, त्वं स्वयं वीक्षस्य, अहं स्वयं न शक्नोमीत्येवरूपः प्रयोगो लोके प्रयुज्यते । तस्मात् स्वयन्त्वं सर्वानुगो धर्मोऽहन्ताचाभि- मानमात्रगत इत्यनयोस्सामान्यविशेषभावो बोध्यः ॥३९॥

 दृष्टान्ते इदंशब्दस्य दार्ष्टान्तिके स्वयंशब्दस्य च सर्वत्रानुगतधर्मार्थकत्व- प्रदर्शनेन सामान्यार्थकतां स्पष्टयति, इदमिति ।

इदं रूप्यमिदं वस्त्रमिति यद्वदिदं तथा ।
असौ त्वमहमित्येषु स्वयमित्यभिमन्यते ॥ ४० ॥

 इदं रूप्यमिदं वस्त्रमिति रूप्यवस्त्रयोः साधारण्येनेदं शब्दो यद्वत् प्रयुज्यते तथाऽसौ त्वमहमित्येषु स्वयमिति सामान्यतोऽभिमन्यते । तेषु स्वयं शब्दस्य प्रयोगदर्शनात्तदर्थस्य सामान्यरूपत्वमित्यर्थः । त्वमहमसावित्यादिसर्व- व्यवहारेषु स्वयंतायाः प्रतीत्यनुगमेन तस्याः सामान्यत्वं, तदननुगतानां युष्मत्वादीनां विशेषत्वमित्यनेन सूचितम् ॥४०॥

कूटस्थात्मस्वयंशब्दानां समानार्थकत्वनिरूपणम् ।

 ननु स्वत्वाहन्तयोर्भेदे तदाश्रययोः कूटस्थजीवयोर्मेदस्सिध्यतीति तव सिद्धान्तहानिरित्याशंक्य समाधत्ते, अहंत्वादिति ।