पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८१

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१५५
कल्याणपीयूषव्याख्यासमेता

 ते तत्तेदन्ते आत्मत्वं तदात्मत्वमिदमात्मत्वमिति प्रयोगदर्शनादात्मत्वे ऽप्यनुगते । ततः तन्मात्रेणैव तयोस्तत्तेदन्तयोरात्मात्वमात्मतारूपत्वं नैव संभाव्यं । तत्र दृष्टान्तमाह, सम्यगिति । यथा सम्यक्त्वादेः सम्यगात्मत्वं अप्तम्यगात्मत्व- मित्यादौ सम्यतवासम्यक्तवयोरात्मन्वानुगतत्वेऽपि, सम्यगुक्तं त्वयेत्यादावपि सम्य क्त्वादेर्दर्शनादधिकदेशवृत्तित्वेन यथा तयोरात्मत्वाभावस्तथा स घटः अयं घट इत्यादौ घटत्वाद्यनुगतत्वेनापि तत्तेदन्तयोर्दर्शनादात्मापेक्षया अधिकदेशवृत्तित्वेन । न तयोरात्मत्वमिति भावः ॥४८॥

 तत्तेदन्तयोरपि, स्वयंत्वस्येवात्मत्वमभ्युपेयम् । तन्निवारणे कोऽसौ तव नेिर्बंध, इत्याशंकां, यदि तत्तेदन्तेऽप्यात्मत्वरूपे स्यातां प्रतिद्वंद्विभावेन लोक सिद्धस्तयोव्र्यवहारो भज्येतेत्याशयेन परिहरति, तत्तेति ।

तत्तेदन्ते स्वताऽन्यत्वे त्वन्ताहन्ते परस्परम् ।
प्रतिद्वंद्वितया लोके प्रसिद्धे नास्ति संशयः ॥ ४९ ॥

 तन्तेदन्ते, स्वतान्यत्वे, त्वन्ताहन्ते, परस्परं प्रतिद्वंद्वितया लोके प्रसिद्धे । प्रतिद्वंद्विभूतौ विरुद्धावित्यनुभवः । एवं च निरुद्धद्वयात्मकत्वमात्मवस्य न् युज्यत इति भावः । तत्र संशयो नास्ति ॥४९॥

 कूटस्थं प्रति प्रतिद्वंद्विफलितमाह, अन्यताया इति ।

अन्यतायाः प्रतिद्वंद्वी स्वयं कूटस्थ इष्यताम् ।
त्वन्तायाः प्रतियोग्येषोऽहमित्यात्मनि कल्पितः ॥ ५० ॥

 स्वयं स्वयंशब्दार्थः कूटस्थोऽन्यताया अन्यशब्दबोध्यधर्मस्य प्रतिद्वंद्वी विरोधी, त्वन्तायाः त्वंशब्दबोध्यधर्मस्य प्रतियोगी विरोधिभूताहन्ताश्रयोऽहंशब्द- बोध्यधर्माश्रय, एषोऽहंकर्तृत्वाभिमानोऽहंशब्दबोधित एष चिदाभासश्चात्मनि कल्पित इतीष्यताम् ॥ ५०॥

 नन्वहं स्वयं जानामीति प्रतीतिबलात्स्वयन्ताहन्तयोस्सामानाधिकरण्य- प्रतीतेरहन्तायाः कथं कल्पितत्वमुच्यत इत्याशंकां परिहरति, अहन्तेति ।