पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८८

पुटमेतत् सुपुष्टितम्
१६२
[चित्रदीप
पञ्चदशी

मन आत्मेति मन्यन्ते उपासनपरा जनाः ।
प्राणस्याभोक्तृता स्पष्ट भोक्तृत्वं मनसस्ततः ॥ ६७ ॥

 प्राणो नात्मा, किंतु मन आत्मेत्युपासनपरा जना मन्यन्ते । तत्र कारणमाह प्राणस्येति । प्राणस्याभोक्तृताऽहं भुंजे इत्यादिष्वहन्ता सामानाधिकरण्येनानुभूयमानस्य भोक्तृत्वस्याभावः प्राणे स्पष्टा। नातः प्राण आत्मा । ततो मनसो भोक्तृत्वं स्पष्टमित्युत्तरेणान्वयः।।६७॥

 मनस आत्मत्वे युक्तिबोधकं प्रमाणमाह, मन एवेति ।

मन एव मनुष्याणां कारणं बंधमोक्षयोः ।
श्रुतो मनोमयः कोशस्तेनात्मेतीरितं मनः ॥ ६८ ॥

 मन एव मनुष्याणां बंधमोक्षयोः कारणमिति श्रुतम् । किं च "तस्माद्वा एतस्मात्प्राणमयादन्योऽन्तर आत्मा मनोमयः" (तै.२.३.) इति मनोमयः कोशोऽपि श्रुतः । तेन मन आत्मेतीरितं प्रतिपादितम् ॥ ६८ ॥

 अनन्तरं विज्ञानवादिनां बौद्धानां मतमाह, विज्ञानमिति ।

विज्ञानमात्मेति पर आहुः क्षणिकवादिनः ।
यतो विज्ञानमूलत्वं मनसो गम्यते स्फुटम् ॥ ६९ ॥

 सुगमा पदयोजना । मनोविज्ञानयोः कार्यकारणभावस्य सत्त्वादित्यर्थः । क्षणिकवादिनो बौद्धैकदेशिनः ॥ ६९ ॥  मनसो विज्ञानमूलत्वं द्वाभ्यां विशदयितुकामः आदौ मनोविज्ञानयोः स्वरूपमाह,

अहंवृतिरिदंवृत्तिरित्यन्तःंकरणं द्विधा ।
विज्ञानं स्यादहंवृत्तिरिदंवृत्तिर्मनो भवेत् ॥ ७० ॥

 अहंवृत्तिरहमित्याकारकं ज्ञानं, इदंवृतिरिदमित्याकारकं ज्ञानमित्यन्तःकरणं,द्विधा द्विप्रकारकम् । तत्राहंवृत्तिर्विज्ञानं स्यात् । इदंवृत्तिश्च मने