पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२००

पुटमेतत् सुपुष्टितम्
१७४
[चित्रदीप
पञ्चदशी

“मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयप्तप षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष" इति सांख्यानां तत्वविभागः । पुरुषश्चासंगचिद्रूप: पुष्करपलाशवन्निर्लिप्तोऽकर्ता नाना । ११ ॥

ईश्वरस्वरूपविचारः ।

 एवमात्मविषये भिन्नमतानि प्रदर्श्येश्वरविषयेऽपि तत्प्रदर्शनाय योगि- मताभिमतमीश्वरस्वरूपमाह, चिदिति ।

चित्सन्निधौ प्रवृत्तायाः प्रकृतेर्हैि नियामकम् ।
ईश्वरं ब्रुवते योगाः स जीवेभ्यः परः श्रुतः ॥ १०२ ॥

 योगाः पातंजलयोगमतानुयायिनः चित्सान्निधौ चित आत्मनसन्निधौ। प्रवृत्तायाः प्रकृतेर्नियामकं नियन्तारमीश्वरं ब्रुवते । योगिनः सांख्यानभिमतमीश्वरं कंचन पुरुषविशेषं जीवेभ्य उत्कृष्टमभ्युपगच्छन्तीत्यर्थः । तथा च योगसूत्रं “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर" इति । नेयं प्रकृतिपुरुषातिरिक्तेश्वरकल्पना प्रमाणविरुद्धेत्याह, स इति ।स ईश्वरो जीवेभ्यः परः श्रेष्ठ इति श्रुतिषु श्रुतः ॥ १०२ ॥

 तत्र श्वेताश्वतरश्रुति (६.१५.) प्रामाण्यमेवाह, प्रधानेति ।

"प्रधानक्षेत्रज्ञपतिर्गुणेश” इति हि श्रुतिः ।
आरण्यकेऽसंभ्रमेण ह्यम्तर्याम्युपपादितः ॥ १०३॥

 प्रधानक्षेत्रज्ञपतिः प्रधानस्य प्रकृतेः क्षेत्रज्ञानां क्षेत्रं शरीरमात्मत्वेन जानंत्यभिमानं कुर्वन्ति ये तेषां च पतिरधिपतिः गुणेशो गुणानां सत्त्वादीनां नियामक इति श्रुतिः प्रवर्तते हि । अत्र गुणशब्देन गुणत्रयसाम्यावस्थारूपं प्रधानमुपलक्षितं भवति । प्रमाणन्तरमप्याह, आरण्यक इति । आरण्यकेऽन्तर्यामिब्राह्मणे “यस्सर्वाणि भूतान्यन्तरो यमयत्येष त आत्माऽतंर्याम्यमृत" (बृ.३.७.१५), इति श्रुतावन्तर्यामीश्वरोऽसंभ्रमेणासकृदुपपादितः ॥ १०३॥

 अत्रापि मानुषशेमुषीप्रागल्भ्यप्रयुक्तं मतभेदमाह, अत्रापीति ।