पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०६

पुटमेतत् सुपुष्टितम्
१८०
[चित्रदीप
पञ्चदशी

 एवं श्रुतिमनादृत्य पण्डितम्मन्यकल्पितानां मतानामानन्त्यमाह, अन्तर्यामिणमिति।

अन्तर्यामिणमारभ्य स्थावरान्तेशवादिनः ।
सन्त्यश्वत्थार्कवंशादेः कुलदैवतदर्शनात् ॥ १२१॥

 एममश्वत्थार्कवंशादेः स्थावराणामपीति भावः । लोके कुलदैवतदर्शनात् । कुले देवभावेन पूजितत्वस्य दर्शनादितिहेतोरन्तर्यामिणमीश्वरमारभ्य स्थावरान्तेशवादिनः वृक्षादिस्थावरपर्यन्तमीशवादिनः स्वेष्टदेवतैवेश्वर इति विवदमानास्सन्ति॥१२१॥

ईश्वरविषयकसर्वमतसमन्वयः।

 एवं मतबाहुल्ये किमस्माभिरवलम्बनीयमित्यत आह, तत्त्वेति ।


तत्वनिश्चयकामेन न्यायागमविचारिणाम् । ।
एकैव प्रतिपत्तिः स्यात् साप्यत्र स्फुटमुच्यते ॥ १२२॥

 एवं मतानामनन्तत्वे तत्वनिश्चयकामेन स्वाभिमानमपहाय न्यायागम विचारिणां न्यायः प्रमाणानुकूलो युक्तिवादः आगमः शास्त्रं तयोर्विचारं कुर्वतां परिशीलनशालिनामित्यर्थः । एकैव प्रतिपत्तिः ज्ञानं स्यात् । सा प्रतिपत्तिरत्र स्फुटमुच्यते ॥ १२२ ॥

 तत्प्रतिपत्तिविवक्षया तदनुकूलां श्वेताश्वतरश्रुतिमुदाहरति, मायामिति ।

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ।। १२३ ॥

 मायां तु प्रकृतिं जगदुपादानकारणं विद्याज्जानीयात् । मायिनं तु मायोपाधिकमन्तर्यामिणमेव महेश्वरं मायाधिष्ठातारं निमित्तकारणं जानीयात् । अस्य मायिनोऽवयवभूतैरंशरूपैश्चतुर्विधभूतग्रामैः सर्वमिदं जगत् व्याप्तम् ॥१२३॥

 एवं श्रुतिदर्शने फलमाह, इतीति ।