पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०७

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१८१
कल्याणपीयूषव्याख्यासमेता

इति श्रुत्यनुसारेण न्याय्यो निर्णय ईश्वरे।
तथा सत्यविरोधः स्यात् स्थावरान्तेशवादिनाम् ॥ १२४ ॥

 इत्येवंप्रकारं श्रुत्यनुसारेण श्रुत्यर्थानुकूल्येनेश्वरे तत्स्वरूपनिरूपणे निर्णयो न्याय्यो न्यायादनपेतो युक्तिसम्मतो भवति । तथैवं नीर्णीते सति, स्थावरान्तेशवादिनां सर्वमतावलम्बिनामित्यर्थः अविरोधः सामरस्यं स्यात् । सर्वस्यापीश्वरत्वाभ्युपगमादिति भावः ॥ १२४ ॥

मायातत्कार्यविचारः।

 अद्य मायास्वरूपं निरूपयति, मायेति ।

माया चेयं तमोरूपा तापनीये तदीरणात् ।
अनुभूतिं तत्र मानं प्रतिजज्ञे श्रुतिः स्वयम् ॥ १२५॥

 स्पष्टः पूवार्धः । तत्र तत्तमोरूपत्वेऽनुभूति लोकानुभवं मानं प्रमाणं श्रुतिः स्वयं प्रतिजज्ञे प्रतिज्ञां चकार ॥ १२५॥

 मायाया जडत्वे लोकानुभवमाह, जडमिति ।

जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः ।
आबालगोपं स्पष्टत्वादानन्त्यं तस्य साऽब्रवीत् ॥ १२६ ॥

 तच्च मायारूपं जडं मोहात्मकं चाविद्यानिमित्तं चेति श्रुतिरनुभावयति । तस्य मोहात्मकरूपस्यानन्त्यमाबालगोपालमव्युत्पन्नमतिपर्यन्तं सर्वेषामपि स्पष्टत्वादिति सा श्रुतिरब्रवीत् ॥ १६॥

 जडमोहशब्दयोर्लौकिकार्थमाह, अचिदिति ।

अचिदात्मघटादीनां यत्स्वरूपं जडं हि तत् ।
यत्र कुंठीभवेद्बद्धिः स मोह इति लौकिकाः ॥ १२७ ॥