पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०९

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१८३
कल्याणपीयूषव्याख्यासमेता

 असौ माया श्रौतयौक्तिकलौकिकैः श्रुतियुक्तिलोकसंबंधिभिस्त्रिभिर्बोधैर्ज्ञानै- र्यथाक्रमं तुच्छाऽनिर्वचनीया वास्तवीति त्रिधा त्रिप्रकारिका भवति । लौकिक दृष्ट्या वास्तवतया भासमाना माया युक्तिदृष्ट्या सत्त्वासत्त्वाभ्यामनिर्वचनीया शास्त्रतोऽसत्येति भावः ॥ १३० ॥

 मायायाः कृत्यमाह, अस्येति ।

अस्य सत्वमसत्त्वं च जगतो दर्शयत्यसौ ।
प्रसारणाच्च संकोचाद्यथा चित्रपटस्तथा ॥ १३१ ॥

 प्रसारणाच्चित्रपटगतं चित्रं संकोचात्तस्याभावं च । जगतः सत्त्वमसत्त्वं च भावाभावादित्यर्थः । स्पष्टमन्यत् ॥ १३१॥

 मायायाः स्वातन्त्र्यास्वातन्त्र्ये आह, अस्वतंत्रेति ।

अस्वतन्त्रा हि माया स्यादप्रतीतेर्विना चितिम् ।
स्वतन्त्रापि तथैव स्यादसंगस्यान्यथाकृतेः ॥ १३२ ॥

 चितिं विना स्वप्रकाशकं चैतन्यमन्तरेण अप्रतीतेर्माया अस्वतन्त्रा स्वस्य तन्त्रा अधीना स्वतन्त्रा इतरव्यापारानधीना सा न भवतीति तथा । मायाप्रतीतिश्चिदघोनेति भावः । तथैवासंगस्य कूटस्थस्यान्यथा जगदाकारेण कृतेः कारणात् स्वतन्त्रापि स्यात् ॥ १३२ ॥

 असंगस्यान्यथाकरणं विवृणोति, कूटस्थेति ।

कूटस्थासंगमात्मानं जगत्वेन करोति सा ।
चिदाभासस्वरूपेण जीवेशावपि निर्ममे ॥ १३३ ॥

 सा माया कूटस्थासंगं कूटस्थोऽत्र एवासंगश्च तथाभूतमात्मानं प्रत्यगात्मानं जगत्त्वेन करोति चिदाभासस्वरूपेण जीवेशावपि निर्ममेऽसृजत् । जीवेश्वरविभागं चाकल्पयदिति भावः ॥ १३३ ॥