चेतति चैतन्यमाप्नोति, पर्यायेणोत्पत्त्यनन्तरं जगन्नाटकरंगस्थले शिशुत्वयौवनजरा- वेषैरनेकैर्वृत्तं सत् पश्यत्यत्ति शृणोति जिघ्रति तथैव गच्छत्यथागच्छति च । विविधाः क्रियाः करोतीति भावः ॥ १४७ ॥
एवमेव स्थावरादीनां परिणामविशेषस्यापि दुर्निरूपत्वमाह, देहवदिति । ।
देहवद्वटधानादौ सुविचार्य विलोक्यताम् । |
देहवत् वटधानादौ न्यग्रोधादिमहावृक्षबीजविषये सुविचार्य विलोक्यताम्। सूक्ष्मतरस्वरूपा धानाः क ? कुत्र वा तदुद्भूतो मूलस्कम्धशाखाकोमलकिसलय- पुष्पफलविपुलश्छायावृक्षः? तस्मादिदं सर्वमपि मायेति निश्चिनु ॥ १४८॥
इतः पूर्वमेव जगत्सत्यत्ववदिनां मतं खंडितमित्याह, निरुक्ताविति ।
निरुक्तावभिमानं ये दधते तार्किकादयः । |
निरुक्तौ जगन्निर्वचनविषये येऽभिमानं मिथ्याज्ञानकृतमभिनिवेशं दधते तार्किकादयः ते हर्षमिश्रादिभिः खंडनादौ खंडनखाद्यादिग्रंथेषु तन्मतखंडेनेन सुशिक्षिताः । तत्र हि “उपयन्नपयन् धर्मो विकरोति हि धर्मिणम्,” इति न्यायमनुसृत्य परमाणूनामुपचये विकारित्वात्तेषामनित्यत्वं स्यादित्युपपाद्य निरंशानां संयोगस्य दुर्घटतया संयोगवशादुपचयोऽपि न घटत इति “ संयोगोऽव्याप्यवृत्तित्वा- देकदेशेऽस्ति संमतः । तदेकदेशस्य प्रश्ने संयोग एव कः?’ इति दूषयित्वा परमाणुकारणवादिनामपि जगत्कल्पितत्वसिद्धान्तस्सिद्ध एवेति “अणौ निरंशे नितरां कल्पिते कल्पितं जगदित्यु"क्त्वा वस्तुतः कणादस्याप्ययमेव हृदयंगमस्सिद्धान्त इति ’कणादः पारिमांडल्यसंयोगात् ह्यणुकक्रमात् जगदुत्प्रेक्षयन् मायावादसादरमानस’ इत्यादिना बहुधा शिक्षिताः विनेयतां गमिताः॥१४९॥
सृष्टेर्मायाबीजत्वविचारः ।
अनिरूपणीयार्थनिरूपणाभिनिवेशं प्राञ्चोऽपि न्यषेधिषुरित्याह, अचिन्त्या इति ।