पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१९७
कल्याणपीयूषव्याख्यासमेता

 यन्त्रारूढानि यन्त्राणि शरीराणि तान्यारूढानि तेष्यत्मत्वाभिमानेनाधिष्ठितानि सर्वभूतानि भ्रामयन् तत्तत्कर्मसु प्रवर्तयन् ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति । अन्तर्यामिप्रेरणा प्राप्तं कर्म धर्ममधर्मम् वा ईश्वराधीनो जनः परिहर्तुं न शक्नोति । एवं चान्तर्यामिप्रेरणया प्रवृत्तः सन्नधर्मे निवृत्तौ धर्मे प्रवृत्तौ वा जानन्नपि न प्रभवति ॥ १७१ ॥

 उदाहृतगीतावाक्यार्थव्याचिकीर्षया तत्रादौ संभावितसर्वभूतभ्रामणस्य पूर्वागत्वेन स्वयमेवान्तर्यामी हृद्गतपूवेवासनानुरूप विकृतिमापन्न इव भातीत्याह,सर्वेति।

सर्वभूतानि विज्ञानमयास्ते हृदये स्थिताः ।
तदुपादानभूतेशस्तत्र विक्रियते खलु ॥ १७२ ॥

 सर्वभूतानि विज्ञानमयाः तेऽइंकर्तृत्वाभिमानिनम्सन्तो हृदये विज्ञानस्य प्रधानस्थाने स्थिताः। तदुपादानभूतेशः तेषां विज्ञानमयानामुपादानकारणभूत ईश्वरस्तत्र हृदये विक्रियते खलु । तन्निष्ठपूर्ववासनानुरूपं विकारमापन्न इव भाति । यथा स्वच्छम् स्फटिकं सन्निहितरक्तादिवर्णास्तत्तद्रूपमिवाभाति ॥१७२॥

 उक्तार्थं विवृणोति, देहेति ।

देहादिपंजरं यन्त्रं तदारोहोऽभिमानिता ।
विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥ १७३ ॥

 स्पष्टः पूर्वार्धः । विहितप्रतिषिद्धेषु धर्माधर्मरूपेषु मार्गेषु प्रवृत्तिः अन्तर्यामि विकारानुरूपं जीवस्य प्रवर्तनं भ्रमण भवेत् ॥ १७३॥

 भ्रामयन् माययेत्यत्र णिच्प्रत्ययस्य मायाशब्दस्य चार्थमाह, विज्ञानेति ।

विज्ञानमयरूपेण तत्प्रवृत्तिस्वरूपतः।
स्वशक्त्येशो विक्रियते मायया भ्रामणं हि तत् ।। १७४ ॥

 ईशः स्वशक्त्या मायया विज्ञानमयरूपेण तत्प्रवृत्तिस्वरूपतः तेषां विज्ञानमयानां प्रवृत्तिः प्रवर्तनम् यत्तत्स्वरूपतः तद्रूपेण विक्रियते । तद्धि मायया भ्राम