पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२४

पुटमेतत् सुपुष्टितम्
१९८
[चित्रदीप
पञ्चदशी

णम् । विज्ञानोपाधिरीश्वरो मायावशात् प्राणिकर्मजन्यवासनानुगुणमुपाधिकृत विकृतिमापद्यभिमानाविष्टो विहितप्रविषिद्वर्तनमनुवर्तत इति भावः ।। १७४ ॥

 श्रुत्याप्ययमेवार्थो बोधित इत्याह, अन्तरिति ।

अन्तर्यमयतीत्युक्त्यायमेवार्थः श्रुतौ श्रुतः।
पृथिव्यादिषु सर्वत्र न्यायोऽयं योज्यतां धिया ॥१७५॥

 श्रुतावुक्तश्रौतवाक्येऽन्तर्यमयतीत्युक्त्या देहादिपंजरगतो जीवः साभिमानमनिच्छन्नपि धर्माधर्मकार्येषु प्रकृत्या नियुज्यत इत्ययमेवार्थः श्रुतः । एवं देहेन्द्रियादिनियमनं श्रुतिसिद्धम् केवलजडेषु पृथिव्यादिष्वप्यतिदिशति, पृथिवीति । अयं न्यायः पृथिव्यादिषु सर्वत्र धिया योज्यताम् । पृथिव्याद्यधिष्ठातृदेवतास्वपि केषांचिद्विकाराणां दर्शनात्तत्तद्विकारेऽपि तासां स्वातन्त्र्याभावात्तासामपि कार्यतया तदुपादानतया तत्रापि तदधिष्ठान ईश्वरसिद्धः । स एव तत्तत्प्राणिकर्मफलभोगाय पृथिव्याद्यधिष्ठातृदेवतासु तांस्तान्विकारांस्तदनुकूलतया स्वयमुपाधिवशाद्विक्रियमाणो जनयतीत्यूह्यमिति तात्पर्यम् ॥१७५ ॥

 उक्तार्थे पांडवगीतायां दुर्योधनप्रोक्तं प्राचामनुभवं दर्शयति, जानामीति ।

जानामि धर्मम् न च मे प्रवृत्तिः जनाम्यधर्मम् न च मे निवृत्तिः ।
केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥१७६॥

 अहं धर्मम् शास्त्रविहितं कर्म जानामि । तथापि तत्र मे प्रवृत्तिर्व्यापारो । न भवति । अधर्मम् प्रतिषिद्धं कर्मम् च जानामि । अनिष्टसाधनमिति जानामि । तथापि तदनुष्ठानान्मे निवृत्तिर्विमुखता न भवति । विध्युक्तकर्मानुष्ठाने प्रतिषिद्ध कर्माननुष्ठाने वा जानतोऽपि न हि जन्तोस्स्वातन्त्र्यमित्यर्थः । तत्र कारणं वक्ति केनेति, हृञ्चन्तःकरणे स्थितेन केनाप्यन्तर्यामिणा देवेन यथा यकर्माचरणे नियुक्तोऽस्मि धर्माधर्मविचारणमन्तरेण तथा करोमि नियुक्तमार्गमेवानुसरामि॥१७६॥