पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१९९
कल्याणपीयूषव्याख्यासमेता

 तर्हि पुरुषकारो निरर्थकस्स्यादित्याशंक्याह, नेति ।

नार्थः पुरुषकारेणेत्येव मा शंक्यताम् यतः ।
ईशः पुरुषकारस्वरूपेणापि विवर्तते ।। १७७ ॥

 स्पष्टा पदयोजना । अयं भावः । ईश्वरविक्रियाया अपि तत्तद्वासनाधीन- तायाः पूर्वमुपपादितत्वेन ततद्वासनानां पूर्वपुरुषकाराधीनतया पूर्वस्मिन् जन्मनि यादृशः पुरुषकारस्तादृश्य एव वासना अस्मिन् जन्मनोशविक्रियकारिण्यो भूत्वा तदीयविक्रियानुरोधेनैव पुनरस्मिन् जन्मनि पुरुषकारं जनयन्ति । एवमयं पुरुषकारो भाविजन्मनि वासनारूपेणेशविक्रियद्वारा तदनुसारिपुरुषकारं जनयतीत्येवंचक्रपर्यालोचने ईशः पुरुषकाररूपतां प्रतिपद्यते । पुरुषकारोऽपीशरूपतां प्रतिपद्यत इति, न पुरुषकारवैयर्थ्यम् । पुरुषकारमन्तरा ईशस्य विकारनैयस्याभावादिति ।

 अत्रायम् विवेकः । मायाधिष्ठानं परं ब्रह्मैवेश्वर इत्युच्यते। स चेश्वरस्तत्- कृतजगत्सर्जनादेरन्यस्यान्यथाकर्तुमशक्यत्वात् सर्वेश्वर इति, सकलबुद्धिवासना- वदज्ञानोपाधिकत्वेन सर्वज्ञ इति, पृथिव्यादिदेवतासु विज्ञानमयादिकोशेषु चाधिष्ठा- तृत्वेन तदुपाधिभूतया चान्तर्यामीति च व्यवह्रियते । विज्ञानमयादीनमन्तरोऽन्तर्यामी विज्ञानमयादिभिस्तद्वपुप्यपरिज्ञायमानः पटादीनामिव तन्तुसंकोचविकासाभ्यां प्राक्तनज्ञानानुगुणवासनारूपोपाधिवशात् यथा विकृतिमापद्यते तथा स्वाधिष्ठितं विज्ञानमयादिकं विकारयति । तेन देहादावभिमानाविष्टस्य जीवस्य विविधायु क्रियासु प्रवृत्तिनिवृतो दृश्येते । अन्नमयादिष्वभिमानवतो जीवस्य विहितेषु प्रतिषिद्धेषु चान्तर्यामिप्रेरणानुगुणा प्रवृतिर्निवृत्तिर्वा भ्रमणमिति, तत्तत्प्राणिकर्मानुरूप वासनाविष्टस्यान्तर्यामिणो विज्ञानमयादिद्वारा प्रवर्तना भ्रामणमिति च निगद्यते । विहितेषु निषिद्धेषु च प्रवृत्तिर्निवृत्तिर्वान्तर्यामिणः प्रेरणामनुसुयैव पुरुषस्य भवति ।

 प्रकरणेऽस्मिन् प्राक्तनकर्मभिर्जायमानाः काश्चिद्वासनाः सर्वभूतान्तर्यामिणि संसृष्टः परे जन्मनि तत्तत्प्राणिप्रवृत्तौ निवृत्तौ च वासनानुकूलतयान्तर्यामिणो विकृतेः कारणानि संपद्यन्ते । तथा संपन्ना यथाविकारमन्तर्यामिणः पुरुषस्य प्रवृत्तिम्