पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३१

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
२०७
कल्याणपीयूषव्याख्यासमेता

आपातदृष्टितस्तत्र ब्रह्मणो भाति हेतुता ।
हेतोश्च सत्यता तस्मादन्योन्याध्यास इष्यते ॥ १९२ ॥

 आपातदृष्टितः सम्यक्पर्यालोचनाविरहितमतेर्ब्रह्मणो निष्क्रियस्य हेतुता जगत्कारणता तत्र भाति । तथैव तत्त्रैव श्रुतौ हेतोर्जगद्धेतुभूतस्येश्वरस्य सत्यता च तदा परामर्शाद्भाति । तस्माद्भासमानं शुद्धस्य हेतुत्वं हेतुभूतस्य चिदाभासस्य सत्यत्वं चान्योन्यासध्यासमन्तरा न घटते । अतः स इष्यत । एवं श्रुतिसिद्धमीश्वरशुद्धचैतन्ययोरन्योन्याध्यासं सिद्धवत्कृत्य वार्तिककारैः परस्य जगत्कारणत्वं पूर्वम् प्रतिपादितमिति न तयोस्तद्विधशंकावकाश इति भावः ॥१९२॥

 नन्वध्यस्तयोरीश्वरब्रह्मणोरैक्यं कथं सिध्यतीत्याशंक्य भ्रान्तिमूलकं तदैक्यमित्याह, अन्योन्येति ।

अन्योन्याध्यासरूपोऽसावन्नलिप्तपटो यथा ।
घट्टितेनैकतामेति तद्वद्भ्रान्त्यैकतां गतः ॥ १९३ ॥

 यथान्नलिप्तः पटः घट्टितेनैकतामेति । स्वतश्शुभ्रः उपरि घट्टितेनान्नेनाच्छादितो भवतीत्यर्थः । तद्वदसौ परमात्माऽन्योन्याध्यासमापन्नस्सन् भ्रान्या ईश्वरेणैकतां गतः॥ १९३ ॥

 दृष्टान्तान्तरं स्मारयति, मेघेति ।

मेघाकाशमहाकाशौ विविच्येते न पामरैः।
तद्वद्ब्रेह्मेशयोरैक्यं पश्यन्त्यापातदर्शिनः ।। १९४ ॥

 स्पष्टोऽर्थः ॥१९४॥

षड्विधलिंगैस्तात्पर्यविचारणाफलम् ।

 श्रुतैौ तदोपक्रान्तस्य शुद्धस्य हेतुत्वे स्पष्टं प्रतीयमानेऽसिद्धमीश्वरस्य हेतुत्वं पंचम्या बोध्यत इत्यभ्युपेत्याघटिततद्धेतुत्वघटनाय मध्येऽध्यासः श्रुति सिद्ध इति निश्चीयते । यथाश्रुतं सिद्धस्य हेतुत्वं कुतो नाद्रियते । श्रुतिबलाद संगस्यैव हेतुत्वं वाऽगीम्कार्यम् । हेतुत्वस्य ससंगमात्रवृत्तित्वनियमाभ्युपगमे