पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३२

पुटमेतत् सुपुष्टितम्
२०८
[चित्रदीप
पञ्चदशी

सत्यमित्याद्युपक्रान्तस्य ससंगत्वं वाऽभ्युपेयम् । हेतोस्ससंगवृत्तित्वनियम उपक्रान्तस्यासंगत्वं च केन निर्बंधेनाङ्गीक्रियत इत्याशंक्योभयमपि प्रमाणसिद्धमिति स एव निर्बंध इत्याशयेनाह, उपक्रमेति ।

उपक्रमादिभिर्लिंगैस्तात्पर्यस्य विचारणात् ।
असंगं ब्रह्म मायावी सृजत्येष महेश्वरः ॥ १९५ ॥

 उपक्रमादिभिर्लिंगै: “उपक्रमोपसंहरावभ्यासोऽपूर्वता फलम्। अर्थवादोप पत्ती च लिंगं तात्पर्यनिर्णये” इत्युक्तेर्लिगै: श्रुतेस्तात्पर्यस्य विचारणादिदं सिद्धम्। उपक्रान्तं ब्रह्मासंगं सर्वसंगरहितं निष्क्रियं निर्गुणम् । मायावी मायाशक्तिसहितः ससंग एष महेश्वरो जगत्सृजतीत्यवगम्यत इत्यर्थः । अतोऽसंगम् तदा परामृश्य तस्य पंचम्या हेतुत्वबोधनमीश्वरब्रह्मणोरन्योन्याध्यासमन्तरा न घटत इत्ययमध्यासः। श्रुतिसिद्ध इति तात्पर्यादवगम्यते । उपक्रमो ग्रन्थस्यारंभः उपसंहारस्तत्समाप्तिः उपक्रमोपसंहारावित्येकं लिंगम् । अभ्यासः पौनःपुन्येन कथनम् , अपूर्वता प्रमाणान्तरानवगतत्वम्, फलं प्रयोजनम् , अर्थवादः, प्रतिपाद्यार्थप्रशंसनम्, उपपत्तिः तत्र श्रुत्युक्ता युक्ति: इत्येते तात्पर्यनिर्णये षड्विधं लिंगम् ॥ १९५ ॥

 ब्रह्मणोऽसंगत्वं श्रुतितात्पर्यविषयमिति तात्पर्यनिर्णायकलिंगेषूपक्रमोप- संहारादित्याद्यलिंगेन दर्शयति, सत्यमिति ।

सत्यं ज्ञानमनन्तं चेत्युपक्रम्योपसंहृतम् ।
यतो वाचो निवर्तन्त इत्यसंगत्वनिर्णयः ॥ १९६ ॥

 “सत्यं ज्ञानमनन्तं ब्रह्मे" त्युपक्रम्य “आनन्दं ब्रह्मणो विद्वा" नित्यानंद वल्ल्याम् ब्रह्मलक्षणमुपसंहृतम् । "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ ‘ब्रह्मपुच्छम् प्रतिष्ठा” ‘रसो वैसः” इत्याद्यभ्यासः । ब्रह्मज्ञाने मानन्तराभावाद- पूर्वता । “आप्नोति परमि"ति फलं । सोऽश्रुते सर्वान् कामानित्यर्थवादः । भीषास्माद्वातः पवते इत्युपपत्तिः । इति हेतोर्ब्रह्मणोऽसंगत्वनिर्णयः क्रियते ।१९६॥

 अस्मान्मायीसृजते विश्वमेतत्तस्मिम्श्चान्यो माययासन्निरुद्धः (श्वे.४.९.) इतीश्वरकर्तृकसृष्टिप्रतिपादिकां श्रुतिमर्थवः पठति, मायीति ।