पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३५

पुटमेतत् सुपुष्टितम्
प्रकरणम्॥६॥]
२११
कल्याणपीयूषव्याख्यासमेता

 सूक्ष्मदेहावस्थायां जगद्भानमस्फुटमिति दृष्टान्तमुखेनाह, प्रत्यूष इति ।

प्रत्यूषे वा प्रदोषे वा मग्नो मम्दे तमस्ययम् ।
लोको भाति यथा तद्वदस्पष्टं जगदीक्ष्यते ॥ २०१ ॥

 प्रत्यूषे प्रति उष: ओषति नाशयत्यन्धकारमित्युषः, सूर्योदयात्पूर्वसंध्यायां,प्रदोषे,प्रक्रांता दोषा रात्निरस्मिन् काले,सूर्यास्तमयानन्तरकाले, मंदेऽल्पे तमसि । स्यष्टमन्यत् ॥ २०१ ॥

 अत्र चित्रपटदृष्टान्तमाह, सर्वत इति ।

सर्वतो लाञ्छितो मष्या यथा स्याद्घट्टितः पटः ।
सूक्ष्माकारैस्तथेशस्य वपुस्सर्वत्र लाञ्छितः ॥ २०२ ॥

 सूक्ष्माकारैरपञ्चीकृतपंचमहाभूतैः । स्पष्टमन्यत् ।२०२ ॥

 जगदंकुरस्यान्यं दृष्टान्तमाह, सस्यमिति ।

सस्यं वा शाकजातं वा सर्वतोऽङ्कुरितं यथा।
कोमलं तद्वदेवैष पेलवो जगदङ्कुर: ॥ २०३ ॥

 अङ्कुरितं बीजादभिनवोत्पन्नम् । कोमलं सूक्ष्मतरम् । पेलवः सूक्ष्मः । स्पष्टमन्यत् ॥ २०३ ॥

 एवं हिरण्यगर्भस्वरूपं तत्कार्यभूतं जगत्स्वरूपं च प्रपञ्च्य विराट्स्वरूपं दृष्टान्तत्रयेण विशदयति, आतपेति ।

आतपाभातलोको वा पटो वा वर्णपूरितः ।
सस्यम् वा फलितम् यद्वत्तथा स्पष्टवपुर्विराट् ॥ २०४ ।।

 अतपाभातलोकः सूर्यकान्त्या स्फुटप्रकाशितो लोकः,वर्णपूरितो नीलपीतादिभो रञ्जितः पटः, अथवा फालितं सस्यं वा, यद्वत् स्पष्टवपुर्भवति तथा पञ्चीकृतभूतकार्योपाधिको विराट् स्पष्टवपुः संपूर्णतो व्याकृतवपुः विश्वरूपेणेति भावः ॥ २०४ ॥