पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२२१
कल्याणपीयूषव्याख्यासमेता

स्सम्यगनालोचितमतेस्साङ्ख्यस्य मायावादो बलादनिच्छतोऽप्यापतितः। को नामाविवेक; ? विवेकस्यात्यन्ताभावो, यद्वा विवेकाद्भिन्नः? द्वितीयेऽविरोधी विरोधी वा ? नाद्यः अभावस्य संगनियमनादिभावकार्योत्पादनाशक्तिकत्वात् । न द्वितीये प्रथमः । विवेकादन्यस्य घटादेस्तदुत्पादनासंभवात् । तर्हि द्वितीयस्यात् । अविवेको नाम विवेकविरोधीति वक्तयम् । स एवाद्वैतिनां मते मायाकार्यमज्ञान मित्युच्यते । तच्च ज्ञानेन नश्यति । एवं साङ्ख्यानां वादो मायावाद एवावश्यं भवतीति भावः ॥ २३२॥

आत्मनः परमार्थतो बन्धभावविचारः

 एवं साङ्ख्याभिमतं जगत्सत्यत्वमीशान्यत्वं च निराकृत्यात्मभेदमाशंक्य निराकरोति, बंधेति ।

बन्धमोक्षव्यवस्थार्थमात्मनानात्वमिष्यताम् ।
इति चेन्न यतो माया व्यवस्थापयितुं क्षमा ॥ २३३ ॥

 बन्धमोक्षव्यवस्थार्थम् बंधस्य मोक्षस्य च व्यवस्थासिद्धये आत्मनानात्वं जीवानामनेकत्वमिष्यताम् । जीवस्यैकत्वे एकस्य बंधोऽन्यस्य मोक्ष इति नो घटते । अतस्तस्यानेकत्वमवश्यमभ्युपगन्तव्यमिति चेन्न । त वस्थापयितुमद्वैतिनां यतो मायैव क्षमा समर्धा भवति ॥२३३॥

 जीवस्य बंधमोक्षयोर्व्यवस्थाया अवसर एव न स्यात् तयोर्मायावृतत्वेन सत्यत्वाभावादित्याह, दुर्घटमिति ।

दुर्घटं घटयामीति विरुद्धं किं न पश्यसि ।
वास्तवौ बंधमोक्षौ तु श्रुतिर्न सहतेतराम् ।। २३४ ॥

 पूर्वार्धः स्पष्टः । किं न पश्यसीति काकुः । मायिकेषु विरुद्धघटनां पश्यस्येवेति प्रसिद्धिर्दर्शिता । एवं च लोके मायिकपदार्थानामिव बंधमोक्षयोरप्य वास्तवत्वं प्रदर्शितम् । एतत्च्छ्रुतिसिद्धमित्याह, वास्तवाविति । आत्मनो वास्तवौ बंधमोक्षौ श्रुतिर्न सहतेतरामीषदपि नाङ्गीकरोति । स्वभावतो बन्धमोक्षविरहिते । आत्मनि तौ विरुद्धधर्मौ मायाकल्पितावित्यर्थः ॥२३४॥