पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
[चित्रदीप
पञ्चदशी

 बंधमोक्षयोरवास्तवत्वबोधिकां ब्रह्मबिंदूपनिषच्छ्रुत्यर्थप्रतिपादिकां गौड- पादाचार्यकारिकां (मां गौ. का. २-३२) पठति, नेति ।

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ २३५ ॥

 निरोधो नाशो न । नोत्पत्तिः । बद्धो देहेन्द्रियधर्मनिबद्धो न । साधकः श्रवणाद्यनुष्ठाता न । मुमुक्षुस्साधनचतुष्टयसंपन्नो न । मुक्तोऽपगताज्ञानो न। इत्येषा परमार्थता । पूर्वोक्तास्सर्वेऽपि परमार्थतया न सन्तीति भावः । सर्वत्र नञ्श्रवणात्त तन्निषेवे आदरातिशयः स्फुटं प्रतीयते ॥२३५॥

 एवमुपपादितं मायाकृतजीवेश्वरादिभेदमुपसंहरति, मायेति ।

मायाख्यायाः कामधेनोर्वत्सौ जीवेश्वरावुभौ।
यथेच्छं पिबतां दैतं तत्त्वं त्वद्वतमेव हि ॥ । २३६ ॥

 स्पष्टोऽर्थः ॥२३६॥

कूटस्थब्रह्मणोरभेदविचारः।

 ननु जीवेश्वरयोर्मायाकल्पितत्वेन भेदस्य मिथ्यात्वेऽप्यमायिकयोः कूटस्थ ब्रह्मणोर्भेद: पारमार्थिकः स्यादित्याशंक्याह, कूटस्थेति ।

कूटस्थबह्मणोर्भेदो नाममात्रादृते न हि ।
घटाकाशमहाकाशौ वियुज्येते न हि क्वचित् ॥ २३७ ॥

 स्पष्टोऽर्थः । नामप्रपञ्चस्य मायिकत्वेन कूटस्थब्रह्मणोर्निर्गुणत्वेन शब्दावेद्य तया तयोर्व्यवहारानर्हत्वाद्व्यहारमन्तरोपदेशासंभवादुपदेशोपपत्तये तत्रासदेव नामोप लक्षणतयोपादाय व्यवहार इति तात्पर्यम् ॥ २३७ ॥

 एवं मिथ्यात्वप्रतिपादनफलकथनपूर्वकमद्वैतप्रतिपादकश्रुत्यर्थं पठति,यदिति।

यदद्वैतं श्रुतं सृष्टेः प्राक् तदेवाद्य चोपरि ।
मुक्तावपि वृथा माया भ्रामयत्यखिलान् जनान् ॥ २३८ ॥