पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२२५
कल्याणपीयूषव्याख्यासमेता

 द्वैताद्वैतयोस्तमःप्रकाशवद्विरुद्धस्वभावयोर्युगपद्भानस्यासंभवाद्द्वैते प्रतीयमानेऽद्वैतप्रतीतिर्न स्यादिति पुनः शंकते, द्वैतेनेति ।

द्वैतेन हीनमद्वतं द्वैतज्ञाने कथं त्विदम्।
चिद्भानं त्वविरोध्यस्य द्वैतस्यातोऽसमे उभे ॥ २४४ ॥

 द्वैतेनाद्वैतं हीनं विरुद्धम् । शून्यमित्यर्थः । अतो द्वैतज्ञाने सतीदमद्वैतं कथं सिध्यति । विरुद्धयोस्तम:प्रकाशयोर्युगपत्प्रतीत्यसंभवात् । सति द्वैतज्ञानेऽद्वैत प्रतीत्यसंभवादिति चेदद्वैतभाने द्वैतस्य प्रतीतिस्तवापि न संभवतीति सममिति भावः । पूर्वपक्षी प्रतिबंदीं परिहरति, चिद्भानमिति । चिद्भानं तु चैतन्यप्रतीतिस्त्वस्य द्वैतस्याविरोधि । चिद्भानकालेऽपि द्वैतस्य भ~ । चिद्भानमेव खलु तवाद्वैतम् । एवं चाद्वैतेन द्वैतस्य विरोधो नास्तीति स्फुटम् । अत उभे असमे ॥ २४४ ॥

 एवं द्वैतेनाप्यद्वैतस्य विरोधो नास्तीति परिहरति, एवमिति ।

एवं तर्हि शृणु द्वैतमसन्मायामयत्वतः।
तेन वास्तवमद्वैतं परिशेषाद्विभासते ॥ २४५ ॥

 एवं तर्हि द्वैतस्य प्रतीतावप्यद्वैतस्याप्रतीतिरियुच्यते चेत्परिहारं शृणु । मायामयत्वत ईश्वरादिस्तंबपर्यन्तं यद्द्वैतं प्रतीयते तत्सर्वं मयाविकारत्वादसीदेवैंद्रजालिकवस्तुवदविद्यमानमेव, तेन मायामयतयाऽवास्तवत्वेन तत्प्रतीतावपि “नेति नेती"त्यादिवाक्यैर्द्वैते निरस्ते परिशेषाद्वास्तवमबाधितमद्वैतं विभासते प्रतीयते ॥२४५॥

 अद्वैतस्य परिशेषप्रकारमाह, अचिंत्येति ।

अचिन्त्यरचनारूपं मायैव सकलं जगत् ।
इति निश्चित्य वस्तुत्वमद्वैते परिशेष्यताम् ॥ २४६ ॥

 अचिन्त्यरचनारूपं मनसाऽपि चिंतितुमशक्या या रचना सैव रूपं यस्य तत्सकलं जगन्मायैवेति द्वैतस्यावस्तुतां निश्चित्याद्वैते चैतन्ये । वस्तुत्वं परिशेष्य ताम् । असत्यत्वेन दैते निरस्ते सत्यद्वैतमेवावशिष्यत इति भावः ॥ २४६॥

29