इत्थमद्वैततत्त्वं नित्यापरीक्षम् ज्ञात्वाऽपि, केचित्कुतोऽसन्तुष्टा इत्यत्र कारणमीर्यतामिति प्रश्ने उत्तरयति, चार्वाकदेरिति । प्रबुद्धस्याप्यूहापोहकुशलस्य । स्पष्टमन्यत् । कुशलबुद्धीनामपि चार्वाकाणां देहत्यात्मत्वेनांगीकारे यथा सम्यग्विचार शून्यत्वमुत स्ववादमौख्यं वा कारणं, द्वैतिनामपि तथैवेति भावः ॥ २५७ ॥
धीदोषाच्चार्वाकादेर्विचारे सम्यक्त्वाभावाद्देहात्मबुद्धिरिति यदि समाधीयते,तदस्माकमपि समाधानं तुल्यमित्याह,सम्यगिति ।
सम्यग्विचारो नास्त्यस्य धीदोषादिति चेत्तथा । |
सम्यग्विचारः संप्रदायसिद्धवेदान्तार्थविचारः । असन्तुष्टाः शास्त्रार्थः प्रति:
विश्वासरहिताः। शास्त्रार्थ शास्त्रसिद्धमद्वैतं । स्पष्टमन्यत् । शास्त्रसिद्धस्य
सत्यचिद्रूपस्य सच्चिद्रूपेण सत्यप्यनुभवे विशेषाकारेणानन्दस्वप्रकाशकत्वादिरूपेण
न पश्यन्ति ॥२५८॥
तत्त्वज्ञानफलनिरूपणम्
एवं तत्त्वं विचार्य तत्फलं विचारयितुं फलप्रतिपादिकां श्रुतिमाह, यदेति ।
यदा सर्वे प्रमुच्यन्ते कामा योऽस्य हृदि स्थिताः। |
यथाऽस्य मुमुक्षोर्हृदि स्थिता "अहमिदं ममेदमित्यध्यासनिमित्ता रागप्रयुक्ता ये कामस्तेसर्वे प्रमुच्यन्ते" । तदा “मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत” (कठ. २ः ६.१५) इत्युतरार्थे श्रुत्यैव कामविमोचनफलमुक्तम् । इदं फलं घटतेः वा न वेति विचारं प्रस्तौति, इतीति । इत्युक्तरीत्या श्रौतं श्रुत्युपदिष्टं फलं दृष्टं । तत्र न घटत इति शंकते, नेति विचारस्थः फलं सर्वकामप्रमोकः । न कदाऽपि ननुभूयते, तथा च स फलमिति कथं वा वक्तुं शक्यत इतिचेत्समाधते, दृष्टमिति । तत्फलं दृष्टमेव अनुभवसिद्धमेव । एवं च तव हेतुरसिद्ध इतिः भावः॥ २५९ ॥
तवनुभवकालमंवाक्यशेषेण दर्शयति, यदेति।