पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
[चित्रदीप
पञ्चदशी

 नन्वेवं सति विदेहमुक्तिरेव मुक्तिरित्यभ्युपेयम् । कथं जीवन्मुक्तिर्घटते ? तस्यादेहपातं प्रतिबंधककर्मफलस्य सत्वात् । प्रतिबंधकाभावविशिष्टस्य बोधस्य तदानीमभावेन मुक्तेरनुदयात् । तदानीं मुक्तिवव्यवहारासंगतोरित्याशंकां परि हरति, स्वेति ।

स्वस्वकर्मानुसारेण वर्ततां ते यथा तथा।
अबशिष्टस्सर्वबोधः समा मुक्तिरिति स्थितिः ।। २८८ ॥

 ते ज्ञानिनः स्वस्वकर्मानुसारेण यथा तथा येन केनापि प्रकारेण वर्ततां । नाम । सर्वबोधस्सर्वेषां बोधोऽपरोक्षात्मज्ञानमविशिष्टो भेदशून्यः समान एवेत्यर्थः।। तेषां मुक्तिर्ब्रह्मभावापत्तिस्समेति च स्थितिश्शास्त्रनिर्णयः । अतो मुक्तिरपि समेति भावः । एवं च मुक्तिर्विषयसंगविमोक एव न तु सर्वविषयनाश इत्याकूतम् ॥२८८॥

 प्रकरणस्य तात्पर्यमादावुदाहृतदृष्टान्तस्मरणपूर्वकं संक्षेपत आह, जगदिति ।

जगच्चित्रं स्वचैतन्ये पटे चित्रमिवार्पितम् ।
मायया तदुपेक्ष्यैव चैतन्यं परिशेष्यताम् ॥ २८९ ॥

 यथा धौते पटे चित्रकारेणार्पितं चित्रमिव स्वचैतन्ये स्वमेव चैतन्यं तस्मिन् जगच्चित्रम् नानावर्णसंयुक्तचित्रसदृशम् जगन्माययार्पितम् । तदुपेक्ष्येव नेति नेतीति निरस्यैव न तु पृथक्कृत्य चैतन्यं शुद्धं परिशेष्यताम् । रागद्रव्याणां पृथक्कारेण शुद्धपट एव विवेचकेन यथा ज्ञायते तद्वच्चैतन्यं परिशेष्यतामित्यर्थः । पृथक्करणे च चित्रस्थविग्रहादीनां विविक्तपटज्ञातुरभानं केवलपटस्य च भानं यथा तद्वत् ज्ञानिनो विविक्तचैतन्यस्य भानं जगदभानमिति भावः ।। २८९॥

 प्रकरणाभ्यासफलकथनेनोपसंहरति, चित्रेति ।

चित्रदीपमिमं नित्यं येऽनुसंदधते बुधाः ।
पश्यन्तोऽपि जगच्चित्रम् ते मुह्यन्ति न पूर्ववत् ॥ २९० ।।