पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ
कल्याणपीयूषव्यख्यासमेता
पचदशी
तृप्तिदीप प्रकरणम् ॥ ७ ॥


प्रकरणविषयीभूतश्रुतिकथनम् ।

 एवं शास्त्रार्थम् सदृष्टान्तं संबोध्य तद्वोधफलम् दर्शयितुमिदं प्रकरणमारभ्यते। तत्वज्ञानस्य फलं तृप्तिरेवेति बोधिकां श्रुति (बृ. ४.४. १२.) मुदाहरति, आत्मानमिति ।

आत्मानं चेद्विजानीयायमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ १॥

 पूरुषो वैदिको दीर्घः जीवोऽहमयं स्वयंप्रकाशं परब्रह्मस्मीत्यात्मानं स्वयमेव विजानीयाच्चेत् यदि जानाति तदाऽप्तकामत्वात् किं भोग्यजातमिच्छन् भोक्त्रभावात् कस्य कामाय शरीरं परितप्यमानं स्वयमनु अनुसृत्य संज्वरेत् तप्येत ? जगतस्तदन्तःपातिनो: काम्यकामुकयोश्च मिथ्यात्वेन निरासे निस्नेहदीपवत्संताप:शनैः शाम्यतीति १३६ श्लोके ग्रंथकर्त्रा व्याख्यातेयं श्रुतिः ।

 अर्थाच्छ्रुतेः पूर्वार्धे, (१) पुरुष:, (२) अयमात्मा (३) अस्मीति विज्ञानमिति, त्रयो विषया विचार्या भवन्ति । तत्र पुरुषशब्दो द्वितीयादिषष्ठान्तश्लोकेषु, अयमात्मेति, सप्तमादिद्वाविंशान्तेषु श्लोकेषु अस्मीति, एकोनसप्ततितमादिषण्णवतिश्लोकेषु च क्रमशो विचारिता: । उत्तरार्धे(१) इच्छा, (२) भोक्ता, (३) तस्य संतापश्च, विचार्य विषयत्रिकम् । तत्रेच्छाशब्दार्थः पंचत्रिंशदुत्तरशततमाद्यैकनवत्युत्तशततमान्तेषु (१३५-१९१) श्लोकेषु, भोक्तृशब्दार्थः द्विनवत्युत्तरशततमाद्ये