पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२४३
कल्याणपीयूषव्याख्यासमेता

कविंशत्युत्तरद्विशतनमान्तेषु श्लोकेषु (१९२-२२१), शरीरस्य तापत्रयस्वरूपम् द्वांविशत्युत्तरद्विशततमादिपंचाशत्युत्तरद्विशततमान्तेषु लोकेषु च।(२२२-२५०), विवृतः। एवं विचारेण कृतं कृत्यम् प्राप्तं प्रापणोयमित्याकारिका प्रकरणविषयभूता तृप्तिरेकपंचाशदुत्तरद्विशततमाद्यष्टनवत्युत्तरद्विशततमान्तेषु (२५१-१९८) श्लोकेषु, प्रदर्श्यते ॥ १ ॥

 श्रुतिबोधिता तृप्तिरुपदर्शितश्रुत्यभिप्रायनिश्चयमन्तरा न स्फुटीभवतीति तात्पर्येण श्रुतिव्याख्यामारभमाणस्तृप्तिभवनफलकं व्याख्यानं प्रतिजानीते, अस्या इति ।

अस्याः श्रुतेरभिप्रायः सम्यगत्र विचार्यते ।
जीवन्मुक्तस्य या तृप्तिः सा तेन विशदायते ॥ २ ॥

 स्पष्टोऽर्थः । या शस्त्रानुभवप्रसिद्धा तृप्तिः ॥२॥

तद्गतपुरुषशब्दार्थविचारः ।

 श्रुतिगतपूरुषशब्दार्थविवक्षया संक्षेपतः सृष्टिप्रशंसां निक्षिपति, मायेति

मायाभासेन जीवेशौ करोतीति श्रुतत्वतः ।
कल्पितावेव जीवेशौ ताभ्यां सर्वं प्रकल्पितम् ॥ ३॥

 सुलभा पदयोजना । गुणत्रयात्मकप्रकृतेर्मायाविद्याभ्यां द्वैविध्यमिति तत्र मायाप्रतिबिंबित ईश्वरोऽविद्यावशगो जीव इति जीवेशयोः कल्पितंत्वम् च तत्त्वविवेक प्रकरणे सुष्ठूक्तम्, पंचदशादि सप्तदशमान्तेषु, श्लोकेषु, चित्रदीपे २१३-१३६ श्लोकेषु च ॥ ३ ॥

 जीवेश्वरसृष्टिं विभागेन स्मारयति, ईक्षणेति ।

ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ४ ॥

 अयमेवश्लोकश्चित्रदीपे त्रयोदशोत्तरद्विशततमे (२१३) श्लोकरूपेण । सविस्तरं व्याख्यात इति नात्राभ्यस्यते ॥४॥