पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२४५
कल्याणपीयूषव्याख्यासमेता

 एवं भ्रान्तिस्वरूपसामान्यनिरूपणेनाधिष्ठानाविशिष्टस्य जीवत्वमिति निरूप्य विशेषध्रान्तावपि तत्साहित्यं दर्शयति श्लोकद्वयेन, अधिष्ठानेति ।

अधिष्टानांशसंयुक्तं भ्रमांशमवलंबते ।
यदा तदाहं संसारीत्येवं जीवोऽभिमन्यते ॥ ७ ॥

 यदा जीवोऽधिष्ठानांशसंयुक्त अधिष्ठानांशः कूटस्थस्तेन संयुक्तं भ्रमांश मसत्यात्मकं चिदाभासोपेतमवलंबते देहद्वयं स्वीकरोति स्वस्वरूपत्वेनांगीकरोति तदा जीवः अहं संसारीत्यभिमन्यते अभिमानवान् भवति । जीवस्यावस्थाद्वयं वर्तते, अहं संसारीति ज्ञानमेकम्, असंगचिद्रूपमित्यन्यत् । यदि जीवस्वरूपं । चिदाभासमात्रमेव न तु तत्र कूटस्थस्यान्तर्भावस्तदा चिदाभासांशस्य मिथ्यात्वा त्परित्यागावस्थायां जीवस्य सर्वथा विलयादहमसंगश्चिद्रूप इति लोके ज्ञानिनां व्यवहाराभाव एवेति भावः ॥ ७॥

अस्मीति शब्दार्थविचारः।

 जीवस्याहं संसारीत्यभिमानः कदा नश्येदित्यत आह भ्रमेति ।

भ्रमांशस्य तिरस्कारादधिष्ठानप्रधानता ।
यदा तदा चिदात्माऽहमसंगोऽस्मीति बुध्यते ॥ ८ ॥

 यदा कूटस्थचिदाभासांशयोर्मिथ्याभूतस्य भ्रमांशस्य तिरस्काराद्विवेचना पूर्वकनिरसनात् । अधिष्ठानप्रधानता अधिष्ठानस्य कूटस्थांशस्य स्वरूपत्वं जीवेन स्वीक्रियते तदाहं चिदात्मा असंगोऽस्मीति बुध्यते जानाति ॥ ८ ॥

 अधिष्ठानस्यापि जीवस्वरूपान्तरगतत्वेऽहं संसार्यहमंसंगोऽस्मीति प्रतीतिः प्रमाणत्वेन प्रदर्शिता । तत्राहमसंगोऽस्मीति प्रतीतिः प्रमैव भवितुं नार्हति, असंगेऽहंकारविशिष्टतायाः बाधितत्वादित्याशंक्य परिहरति, नेति ।

नासंगेऽहंकृतिर्युक्ता कथमस्मीति चेच्छुणु ।
एको मुख्यो द्वमुख्यावित्यर्थस्त्रिविधोऽहमः ॥ ९॥