निकृष्टबलिदानेन तस्य तृप्तिरिति तस्याशयोऽवस्तुभूतस्यावस्तुनैव निवृत्तिरिति भावः ॥ १७ ॥
प्रतिपादितार्थ फलप्रदर्शनपूर्वकमुपसंहरति, तस्मादिति ।
तस्मादाभासपुरुषः स कूटस्थो विविच्य तम् । |
तस्मात् यस्माच्चिदाभासस्य यथार्थ स्वरूपं कूटस्थ एव तस्मादाभासपुरुषश्चिदाभासः स कूटस्थः। ते कूटस्थम् चिदाभासाद्विविच्य विभज्याऽहं कूटस्थोस्मीति विज्ञातुं अधिष्ठानभूतकूटस्थांशः सत्यः आरोपितो भ्रमांशोऽनृत इति च विज्ञातुमर्हतीत्यात्मानं चेद्विजानीयादयमस्मीतिपूरुष" इति श्रुतिरभ्यधादवोचत् ॥१८॥
श्रुतिगताऽयंशब्दार्थविचारः ।
एव “मस्मि पूरुष” इति शब्दद्वयस्यार्थं प्रतिपाद्य श्रुतिगतायंशब्दप्रयोगाभिप्रायमाह, असंदिग्धेति ।
असंदिग्दार्थविपर्यस्तबोधो देहत्मनीक्ष्यते । |
लौकिकजनस्य देहात्मनि देहात्मविषये यथा असंदिग्धार्थविपर्यस्तबोधः असंदिग्धः ततदभावद्वयकोटिद्वयावगाहि ज्ञानं, संशयः तदभावमात्रावगाहि ज्ञानं, विपर्ययः तद्भिन्नो बोधः 'ईक्ष्यतेऽनुभूयते, तद्वदत्र प्रत्यगात्मनि संदेहविपर्यय- रहितो बोध इति निर्णेतुमयमिति शब्दोऽभिधीयते प्रयुज्यते । पामरस्य यथा देह एवात्मेति दृढतमं ज्ञानं तथैव कूटस्थे दृढ़तमं ज्ञानमत्र विवक्षितमिति प्रदर्शनायायं शब्दः प्रयुज्यत इत्यभिप्रायः ॥ १९ ॥
अस्मिन्नर्थे आचार्योपादानामुपदेशसाहस्रीवाक्यमुदाहरति, देहेति ।
देहात्मज्ञानवत् ज्ञानं देहात्मज्ञानबाधकम् । |