पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
[तृप्तिदीप
पञ्चदशी

निरतिशयसुखम् तत् प्राप्तमिति, तुष्यति । अत्रोद्देश्यक्रमव्यत्ययेन प्रदर्शनस्याय माशयः। सति विवेके, स्वरूपं सम्यक् भासते, विवेकाधीनत्वात्स्वरूपभानस्य । विवेकेनैव भोक्तृत्वादेर्निरासः,स्वरूपज्ञानेन कृतकृत्यतेति वस्तुक्रम इति बाधयितु- मिति ॥ ३२॥

 प्रदर्शितक्रमो न्याय एवेति दर्शयितुं तत्क्रमेणोपसंहरति, अज्ञानमिति ।

अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधीः ।
अपरोक्षमतिः शोकमोक्षस्तृप्तिर्निरंकुशा ॥ ३३ ॥

 शोकमोक्षः शोकस्य मोक्षः अपगमनम् , निरंकुशा तृप्तिः कूटस्थात्मैक्य- ज्ञानस्याद्वितीयत्वात्तज्जन्यतृप्तेरपि निरंकुशत्वम् ।स्पष्टमन्यत् ।। ३३॥

 एताः सप्तावस्थाश्चिदाभासस्य न तु कूटस्थस्येत्युक्त्वा ता विभजति,सप्तेत्ति।

सप्तावस्था इमाः सन्ति चिदाभासस्य तास्विमौ ।
बंधमोक्षौ स्थितौ तत्र तिस्रो बंधकृताः स्मृताः ॥ ३४॥

 सुगमा पदयोजना। नैता अवस्थाः कूटस्थस्य । तस्यासंगचिद्रूपत्वात् । तासु बंधमोक्षौ कार्यत्वेन स्थितौ । तिस्रोऽज्ञानावरणविक्षेपा बंधकृताः ॥ ३४॥

अज्ञानादीनां बन्धकारणत्वविचारः ।

 तिसृणां बंधकारित्वप्रदर्शनाय तदूपविवक्षयाऽदावज्ञानस्वरूपं निरूपयति,नेति

न जानामीत्युदासीनव्यवहारस्य कारणम् ।
विचारप्रागभावेन युक्तमज्ञानमीरितम् ॥ ३५ ॥

 विचांरप्रागभावेन युक्तं विचारस्यात्मतत्त्वसंबम्धिविचारस्य यः प्रागभावस्तेन युक्त तत्त्वंविचारप्रागभावकालिकमित्यर्थः, उदासीनव्यवहारस्य कारणं न जानामी- त्वनुभूयमानमज्ञानमितीरितम् ॥ ३५॥

 आवृत्तिस्वरूपमाह,अमार्गेणेति ।