पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२६१
कल्याणपीयूषव्याख्यासमेता

व्यक्त्यनुल्लेखमात्रेण भ्रमत्वे स्वर्गधीरपि ।
भ्रान्तिः स्याद्यक्त्यनुल्लेखात्सामान्योल्लेखदर्शनात् ॥ ५३ ॥

 यदि व्यक्त्यनुल्लेखमात्रेण भ्रमत्वे यदि व्यक्त्यनुल्लेखात् स्वर्गोऽस्तीति सामान्योल्लेखदर्शनात् स्वर्ग इत्येवमाकारेणैव तस्य प्रतीतेरयं स्वर्ग इति विशेषा- कारेण ग्रहणाभावास्वर्गधीरपि भ्रान्तिः स्यात् ॥ ५३ ॥

 तृतीयं निराकरोति, अपरोक्षत्वेति ।

अपरोक्षत्वयोग्यस्य न परोक्षमतिभ्रमः।
परोक्षमित्यनुल्लेखादर्थात्पारोक्ष्यसंभवात् ॥ ५४॥

 अपरोक्षत्वयोग्यस्य अपरोक्षत्वेन ग्रहणयोग्यस्यापरोक्षज्ञानस्य तद्विषयिक- परोक्षमतिः परोक्षमित्याकारकं ज्ञानं न भ्रमः । आत्माभिन्नब्रह्मविषयकपरोक्षज्ञानस्य भ्रान्तित्वं न संभवतीत्यर्थः । तत्र हेतुमाह, परोक्षमिति। ब्रह्म परोक्षमित्यनुल्लेखाद वचनात् । यद्यात्माभिन्नं ब्रह्म परोक्षमित्युच्येत तर्हि तदुक्तहेतोः परोक्षत्वेन ग्रहण- संभवदहंब्रह्मस्मीति ज्ञानं बाध्येत । तत्ज्ञानं परोक्षमिति केनाऽपि न गृह्यते । अतस्त्वदुक्तहेतुरसिद्ध इति तात्पर्यम् । तद्दहं ब्रह्मास्मीति ज्ञानस्य कथं परोक्षत्वं समर्यत इत्याशंक्याह, अर्थादिति । अयं घट इतिवदिदं व्रजेति व्यक्युल्लेखस्या दर्शनादर्थात् पारोक्ष्यसंभवात् पारोक्ष्यसिद्धिरिति भावः । न प्रतीतिमात्रमेव वस्तुसाधकम् । किंतुयुक्तिरपीति भावः ॥ ५४ ॥

 चतुर्थमाशंक्य परिहरति,अंशेति ।

अंशागृहीतेर्भ्रान्तिश्चेद्घटज्ञानं भ्रमो भवेत् ।
निरंशस्यापि सांशत्वं व्यावर्त्यांशविभेदतः ॥ ५५॥

 अंशागृहीतेर्निरंशे ब्रह्मण्यंशानामसंभवादंशग्रहणासंभवात्तत्र तद्ग्रहणाभावेन भ्रान्तिर्भ्रमत्वमिति चेत्तर्हि घटज्ञानं भ्रमो भवेत् भ्रम इति भवताभ्युपेयम्। अन्तरा वयावाणामग्रहस्ण तत्रापि तुल्यत्वात् । ननु घटज्ञानं भ्रमो न, घटस्यावयवत्वेन तेषामंशत्वेनाग्रहणेऽपि वस्तुतोऽम्शानामपि गृहीतत्वात् , अत्र तु ब्रह्मणो निरंशत्वेन