पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२६३
कल्याणपीयूषव्याख्यासमेता

इत्याशंक्य सामान्यतः शब्दजन्यं ज्ञानं यद्यपि परोक्षम् विचारसहकृतं तु तदप- रोक्षमपीति दृष्टान्तप्रदर्शनेन बोधयति, आत्मेति ।

आत्मा ब्रह्मेति वाक्यार्धे नि:शेषेण विचारिते ।
व्यक्तिरुल्लिख्यते यद्वद्दशमस्त्वमसीत्यतः ॥ ५८ ॥

 स्पष्टोऽर्थः। "अयमात्मा ब्रह्मे"ति महावाक्यार्थविचारे पूर्वं परोक्षतया ज्ञातं परं ब्रह्म अपरोक्षतया साक्षात्क्रियते । तत्र प्रत्यगात्मैव ब्रह्मेति विवक्षितत्वादि त्यर्थः ॥ ५८ ॥

 दशमस्त्वमसीति वाक्यार्थं विचारयति, दशम इति ।

दशमः क इति प्रश्ने त्वमेवेति निराकृते ।
गणयित्वा स्वेन सह स्वमेव दशमं स्मरेत् ॥ ५९ ॥

 दशमस्त्वमसीत्याप्तवाक्यजन्येन परोक्षज्ञानेन किंचित्समाहितस्य दशमस्य "दशमः कः?" इति प्रश्ने त्वमेव दशम इत्याप्तेन निराकृते परिहृते सति स्वेन सहेतरान्नव गणयित्वा स्वमेवात्मानमेव दशमं स्मरेत् । अहमेव दशम इत्यपरोक्षतो जानाति ॥ ५९ ॥

 एवं जातस्य ज्ञानस्य विचारसहकृतवाक्यजन्यत्वात्कदापि न भ्रमत्वमित्याह, दशम इति ।

दशमोऽस्मीति वाक्योत्था न धीरस्य विहन्यते ।
आदिमध्यावसानेषु न नवत्वस्य संशयः ॥ ६० ॥

 स्पष्टः पूर्वार्धः । नवानां पुरुषाणामादिमध्यावसानेषु गणनायां नवत्वस्य संशयो नास्ति । सर्वेष्वपि दशमत्वग्रहेऽपि स्वस्मिन् जातं दशमत्वज्ञानं न निवर्तते।अत एवैतद्वाक्यजन्यज्ञानस्य कदाचिदपि बाधायोगात्सर्वधाऽभ्रमत्वं स्पष्टमिति भावः ॥ ६०॥

 एवं रूपां विचारणां दार्ष्टान्तिके योजयति, सदिति ।