सदेवेत्यादिवाक्येन ब्रह्मसत्त्वं परोक्षतः । |
“ सदेवसोम्येदमग्र आसीदि” (छां. ६.२.१) त्यादिवाक्येन ब्रह्मसत्स्वं ब्रह्मणोऽस्तित्वं परोक्षतो गृहीत्वा ज्ञात्वा “ तदैक्षत बहुस्यां प्रजायेय", (छां. ६.२.२) “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी”(छाम्. ६.३.३)त्यादिवाक्यार्धपर्यालोचनया प्रत्यगात्मस्वरूपं संभाव्य“तत्त्वमस्यादि” (छां६.८.८.)वाक्यात् "नेति नेती"ति (बृ.३.९.२६.)वाक्यार्धसहकृतात् व्यक्तिम् समुल्लिखेत् व्यक्तिसमुल्लेखपूर्वकमहंब्रह्मस्मीति ब्रह्मापरोक्षतया साक्षात्कुर्यात् ॥ ६१॥
अस्य ज्ञानस्याभ्रमत्वं दर्शयति, आदीति ।
आदिमध्यावसानेषु स्वस्य ब्रह्मत्वधीरियम् । |
इयं विचारणसहिता स्वस्य ब्रह्मत्वधीः ब्रह्माहमस्मीति ज्ञानमादिमध्यावसानेषु न व्यभिचरत्येव । पंचानां कोशानामादिमध्यावसानेष्वात्मनो व्यवहारेऽपि न व्यभिचरेन्न बाध्यते। दशमस्त्वमसीति वाक्येनादिमम् मध्यममंतिमं वारभ्य गणनायामप्यहं दशमोऽस्मीत्यपरोक्षज्ञानं निराबाधं गणयितुः सिध्यति । एवमन्न- मयादिकोशेष्वादिमं मध्यममंतिमं वा विचारणेऽपि ब्रह्मत्वबुद्धिरपरोक्षा न विहन्यते। तस्मादापरोक्ष्यमपरोक्षत्वज्ञानं प्रतिष्टितं सुस्थितम् । अवाध्यमतो न भ्रमः॥६२॥
परोक्षज्ञानपूर्वकमेव विचारसहकारेणापरोक्षज्ञानं जायत इति तैत्तरीय श्रुतिप्रतिपादितभृग्वाद्यनुभवबलादपि ज्ञायते इत्याह, जन्मेति ।।
जन्मादिकारणत्वाख्यलक्षणेन भृगुः पुरा । |
पुरा भृगुर्वरुणपुत्रो जन्मादिकारणत्वाख्यलक्षणेन “यतो वा इमानि भूतानि जायन्ते” (तै. ३.१.) इत्यादिना पित्रोपदिष्टेन वाक्येन ब्रह्मणो जगतः सृष्टिस्थितिलयकारणत्वप्रतिपादकेन तटस्थलक्षणवाक्येन ब्रह्मणोऽस्तित्वं पारोक्ष्येण