तादृगेको रसस्तस्य भावः तेन वाक्यार्थो विदुषां मतः । पूर्वाभिमतस्य वाक्यार्थत्वे ऽन्यानुमतस्य संसर्गस्य संसर्गतया प्रकारतया वा भानं स्यात् । अस्माकं तु संसर्गस्य येन केनाऽपि रूपेण भानं नेष्टं,असंगस्वविरुद्धत्वात् संसर्गस्य॥७५॥
वाक्यजन्यबोधस्य येन केनापि रूपेण संसर्गानवगाहित्वं स्पष्टयति, प्रत्यगिति।
प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः । |
यः प्रत्यग्बोधः प्रत्यगात्मा बुद्ध्यादिसाक्षित्वेन स्फुरति सोऽद्वयानंदलक्षणः। "आनंदं ब्रह्मणो विद्वान्"(तै.२.४.) “आनंदो ब्रह्मेति व्यजानात्” (तै.३.६.) एषो ह्येव आनंदयाति (तै.२.७.)“एतस्यैवानंदस्यान्यानि भूतानि मात्रामुपजीवन्ती' (बृ.४.३.३२)त्यादि श्रुतिप्रतिपादितोऽखंडैकानंदस्वरूपः । अद्वयानंदरूपश्च परमात्माऽपि प्रत्यग्बोधैकलक्षणः प्रत्यग्बोधस्वरूप:। एवं च तत्र संसर्गस्य सुतरां भानं नास्तीति नासंगब्रह्मसक्षात्कारविरोधः ॥ ७६ ॥
एवमखंडबोधफलमाह, इत्थमिति ।
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यथा भवेत् । |
तदर्थस्य च पारोक्ष्यम् । |
इत्थमेवं प्रकारेण तत्त्वमस्यादिमहावाक्यादन्योन्यतादात्म्यप्रतिपत्तिः तत्त्वमोरर्थभूतयोः परमात्मप्रत्यगात्मनोरन्योन्यस्य तादात्मयस्याभेदस्य प्रतिपत्तिरखंडार्थ- बोधो यथा भवेत् तथैव बोधसमकालमेव त्वमर्थस्य त्वंशब्दबोधितस्य प्रत्यगात्म नोऽब्रह्मत्वं तदर्थस्य च पारोक्ष्यं व्यावर्तेतावश्यं निवर्तेत ॥ ७७ ॥
ततः किमित्याशंक्याह, यदिति ।
पूर्णानंदैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ७८ ॥ |