एवं प्रत्यगात्मनोऽब्रह्मत्वस्य तदर्थस्य पारोक्ष्यस्य च निवृतेर्यदि ततः किं फलं इतिप्रश्नः। उत्तरम् शृणु। प्रत्यग्बोधः सर्वान्तर्यामिबोधश्चित्स्वरूपः प्रत्यगात्मा पूर्णानंदैकरूपेणावतिष्ठते ॥ ७८ ॥
समयबलेन सम्यक्परोक्षानुभवसाधनमागम इति लक्षणलक्षितागमान्तर्गतं वाक्यं कथमपरोक्षज्ञानजनकं भवेदित्याशंक्योपालंभनपूर्वकं परिहरति, एवमिति ।
एवं सति महावाक्यात्परोक्षज्ञानमीर्यते । |
एवं सति वाक्यस्यापरोक्षज्ञानजनकत्वे निश्चिते सति महावाक्यात् परोक्षज्ञानं यैरीर्यते कथ्यते तेषां शास्त्रसिद्धान्तविज्ञानमुपनिषच्छास्त्रस्य निश्चितार्थस्य विशेषज्ञानं शोभतेतरामिति परिहासः । ते सिद्धान्तरहस्यं न जानन्ति । एवं च तदीयागमलक्षणमपि सिद्धान्तरहस्यापरिज्ञानमूलकपेवेति तात्पर्यम् ॥७९॥
शास्त्रसिद्धान्तस्तावदास्ताम्, अनुमानेन वाक्यस्य परोक्षज्ञानजनकत्व सिद्धिरिति, चेन्नेत्याह, आस्तामिति ।
आस्तां शास्त्रस्य सिद्धान्तो युक्त्या वाक्यात्परोक्षधीः। |
शास्त्रस्य सिद्धान्त स्तत्रास्ताम् । महावाक्यानामपरोक्षज्ञानबोधकत्वरूपः सिद्धान्तो युक्त्या न घटत इत्याकूतं भवति । युक्त्या अनुमानेन वाक्यात् परोक्षधीरेव सिध्यति । अनुमानरचनां प्रदर्शयति, महावाक्यानि परोक्षज्ञानजनकानि वाक्यत्वात् स्वर्गकामो यजेतेत्यादिवाक्यवत्, इत्युच्यते चेन्नैवम्, हेतोर्दुष्टत्वादित्याह, दशमेति । दशमे दशमस्त्वमसीति स्थले व्यभिचारतः । तत्र वाक्यस्यापरोक्षज्ञान जनकत्वात् ॥ ८० ॥
किं च वाक्यं परोक्षज्ञानजनकमेवेत्यभ्युपगमे तवानर्घोप्यापततीत्याह, स्वत इति ।
स्वतोऽपरोक्षजीवस्य ब्रह्मत्वमभिवांछतः। |