एवं भावाभावयोरप्युपाधिप्रयोजकत्वं विजातीयभावयोरुपाधित्वप्रदर्शन- मुखेन संसाध्य तयोरेककार्यकारित्वेनाप्युपाधित्वं साधयितुमाह, अतदिति ।
अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च । |
अतद्व्यावृत्तिरूपेण तत् ब्रह्म न भवति अतत् जगत् , तस्य नेति नेतीति व्यावृतिरूपेण निषेधेन साक्षाद्विधिमुखेन विधेरूपदेशस्य मुखेन “सत्यं ज्ञानमनन्तं ब्रह्मे"त्यादि भावरूपेण ब्रह्मावबोधने वेदान्तानां प्रवृत्तिः व्यापारो द्विधा स्यादित्याचार्यभाषणम् । वाक्यवृत्तौ "त्यमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः, अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन चेति" भाषितम् । एवं च तद्वोधोपायस्यापि तदुपाधित्वा वश्यंभावाद्विधेरिव व्यावृत्तेरपि बोधोपायतया भावाभावयोरुभयोरपि तदुपाधित्वमवगन्तव्यमिति भावः ॥ ८७ ॥
नन्वतद्व्यावृत्त्या वेदान्तानां ब्रह्मबोधकत्वं नो घटते अहं ब्रह्मास्मीति वाक्येऽहंपदार्थस्य कूटस्थस्यापि वृत्तिप्रसंगादिति शंकते, अहमिति ।
अहमर्थपरित्यागादहं ब्रह्मेति धीः कुतः? |
अतद्व्यावृत्तिरूपेण वेदान्तानां प्रवृत्ते "रहंब्रह्मास्मी" ति महावाक्येऽहमर्थपरित्यागा "दहम्" शब्दस्य योऽर्थः कुटस्थस्तस्य परित्यागादहं ब्रह्मेति धीः कुतः सिध्यति? अहंशब्दार्थपरित्यागेऽर्थादस्मीति शब्दार्थस्यापि परित्याज्यत्वात् “तत्वमसी"ति वाक्यार्थजन्यानुभववदर्थानुभवो नात्रोदेतीति पूर्वपक्षः । समाधते, नेति । नैवं पूर्वोक्तरीत्या वक्तव्यम्, कुतः? भागलक्षणया जहदजहल्लक्षणया अहंशब्दार्थस्य योंशः एकदेशभूतो जाड्यादिः तस्य त्याग उदितः। एवं च तत्र कूटस्थस्य सर्वात्मना यागो नास्ति किन्तु तद्गतं जाड्यादिकमेव निवर्तते । तदेवातद्व्यावृत्ति रूपेणोच्यते ॥ ८८॥
तदेवाह, अन्तःकरणेति ।
अन्तःकरणसंत्यागादवशिष्टे चिदात्मनि । |