पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२८१
कल्याणपीयूषव्याख्यासमेता

एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ १०६ ॥

 तच्चिंतनं मनसि तस्य परब्रह्मणस्तदुपपादकवाक्यसहायेन चिंतनं पौनःपुन्येन मननम् , स्वन्यूनेभ्यस्तत्कथनं तत्स्वरूपव्याख्यानम् , गुरुजनैर्वा सतीथ्यैर्वाऽन्योन्यं तत्प्रबोधनं संवादनपूर्वकं तस्य प्रकर्षेणावगमनम्, एतदेकपरत्वं एतस्मिन्नेवाभिमुख्ये नासक्तिः । इदं ब्रह्माभ्यासमिति बुधा विदुः ॥ १०६ ॥

 एकपरत्वं काण्वश्रुत्या विशदयति, (बृ.४.४.२१.) तमिति ।

तमेवधीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्येयेद्बहून् शब्दान् वाचो विग्लापनं हि तत् ॥१०७ ॥

 धीरः ब्रह्मचर्यादिसाधनसंपन्नः ब्राह्मणः ब्रह्मणि प्रभविष्णुः तमेवाप्रमेयम् ध्रुवं विरजं परमाकाशवदजमात्मानं महाध्रुवमेवम् गुरूपदेशशास्त्राभ्यां विज्ञाय शमदमादि साधनैर्निस्संशयं ज्ञात्वा प्रज्ञां ब्रह्मात्मैक्यज्ञानसंततिं कुर्वीत समुपार्जयेत् । बहून् प्रभूताननात्मविषयान् शब्दान् नानुध्यायेन्नानुस्मरेत् । इदमुपलक्षणमनात्मशब्दाना मुच्चारणस्य । हि यस्मात् कारणात् तत् बहुशब्दानुध्यानं तदुच्चारणं च वाच उपलक्षणान्मनसश्च विग्लापनं क्लेशकारणं भवति ॥ १०७॥

 तत्र गीतावाक्यमनुसंदधाति, अनन्येति ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ १०८ ॥

 ये जना अनन्याः येषामन्यो न विद्यते ते ‘अहं ब्रह्मास्मी"ति ज्ञानेन मदभिन्नाः संतः मां चिन्तयन्तः तथैव मन्वानाः पर्युपासते परितः सर्वकालावस्थायु मद्रूपा एव भवन्ति । एवं नित्याभियुक्तानामविच्छन्नतया मय्येव संलग्नधियां योगक्षेमं योगोऽप्राप्तस्य विपरीतभावनानिरासादिकस्य प्राप्तिः, क्षेमः प्राप्तस्य स्थिरीकरणादिना संरक्षणमित्याद्यहं वहामि संपादयामि ॥ १०८ ॥

 अहं मामित्युपदेशशास्त्रदृष्ट्या वामदेववदुक्तपद्यद्वयाशयमाह,इतीति ।

इति श्रुतिस्मृती नित्यमात्मन्येकाग्रतां धियः ।

36