पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
[तृप्तिदीप
पञ्चदशी

जानन् धैर्याद्दृतम् गच्छेदन्यस्तिष्ठति दीनधीः ॥१३४॥

 स्पष्टोऽर्थः ॥ १३४ ॥

आत्मानंचेदिति श्रुतेरुत्तरार्थविचारारंभः ।

 एतावत्पर्यन्तं प्रकरणादौ व्याख्येयत्वेन प्रतिज्ञातायाः काण्वश्रुतेः पूर्वार्थ प्रतिपाद्यमर्थं सुविशदमुपपाद्योत्तरार्थमर्थतः पठति, साक्षादिति ।

साक्षात्कृतात्मधीः सम्यगविपर्ययबाधितः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ १३५॥

 सम्यक् श्रुत्यनेकतार्थासंभाव्यता विपरीतभावनादिबहुविधार्थपरित्यागेन दृढतरं साक्षात्कृतात्मधीः फलव्याप्तिं विना साक्षात्कृतात्मब्रह्मैक्यः अविपर्ययबाधितो विपर्ययेण देहाद्यात्मत्वबुद्ध्याऽवादधितः पुमान् किं प्रयोजनमिच्छन् कस्य कामाय परितप्यमानं शरीरमनुसंज्वरेत् अनुसृत्य परितपेत् ॥१३५ ॥

काम्यकामुकयोरभावे सन्तापाभावः ।

 श्रुतिवाक्यतात्पर्यं विवृणोति, जगदिति ।

जगन्मिथ्यात्वधीभावादाक्षिप्तौ काम्यकामुकौ ।
तयोरभावे संतापः शाम्येन्निःस्नेहदीपवत् ॥ १३६ ॥

 काम्यकामुकौ काम्यः कामनाविषयः कामुकः कामी उभावपि जगन्मि- थ्यात्वधीभावात् जगतः कर्तृभोक्तृक्रियाकारकफलसम्कुलस्य द्वैतस्य मिथ्यात्व- ज्ञनादाक्षिप्तौ निरस्तौ । तयोः काम्यकामुकयोरभावे संवापः संसर्गजन्योऽनुतापः निःस्नेहदीपवत् तैलाभावे दीपवत् शाम्येत् । स्वयमेव नश्येत् । न तत्र शामकान्त- रापेक्षा । सर्वद्वैतस्यासत्वात् काम्यकामुकयोरभावे सन्तापसात्यन्ताभाव इत्यर्थः ।१३६

 ननु जगन्मिथ्यात्वज्ञानात् काम्यस्य निवृत्तावपि कामुकनिवृतिः कथं सिध्यति ? काम्यस्य निवृत्तौ कामनाया निवृत्तत्वात् कामनाविशिष्टकामुक निवृत्तिरर्थात्सिध्यतीति चेत् कामनानिवृत्तौ सत्यामेवं स्यात् । काम्यनिवृत्तौ कामनानिवृत्तिः क्व दृष्टा ? इत्याशंक्य दृष्टान्तं दर्शयति, गंधर्वेति ।