पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
कल्याणपीयूषव्याख्यासमेता ।

भिद्यतेः तद्वत् एवं स्थानत्रयेऽप्येकस्मिन्दिने जाग्रदादिषु संविदेकेति निरूपिता। एवं निरूप्य तस्याः कालिकाभेदमपि । प्रतिपादयति, तद्वदिति । दिनान्तरेऽपि तद्वत् तधैव अभिन्ना। अनेकधा सृष्ट्यादि बहुधा गतागतेषु अतीताऽगामिषु मासाब्दयुगकल्पेषु सर्वकालेषु संविदेका सा संविन्नोदेति न जायते नाऽस्तमेति न नश्यति, कालत्रयाबाध्यत्वात् सत्या नित्या चेति भावः । एषैका संवित् स्वयम्प्रभा स्वयम्प्रकाशा नान्यैः प्रकाश्यते, अन्यस्य प्रकाशकश्य विद्य- मानत्वेऽनवस्थादोषापतेः; ‘विज्ञातारमरे केन विजानीयात्’ (बृ.४.५.१५) अमृतोऽदृष्टो द्रष्टाऽश्रुतश्श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता’ (बृ. ३.७.२३) "तस्य भासा सर्वमिदं विभाति" (कठ. २. ५. १५) “न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्," (कठ. १.२.१८) इत्यादिश्रुतिशतं चात्र प्रमाणम् । ननु यदि स्वयम्प्रकाशा संवित्तदा घटवत्तस्या अपि वेद्यता स्यादिति चेन्न; बेद्यत्वे सति केन वेद्या भवेत् ? स्वेनाऽन्येन वा ? आद्ये स्वेनैव स्वयं ज्ञायत इति विरुद्धम्, एकस्यैव कर्तृकर्मव्यपदेशाऽनर्हत्वात् ; द्वितीयेऽनवस्थादोषप्रसङ्गः; अतः संवित्, स्वयम्प्रभा अपरोक्षाऽप्यवेद्या चेति भावः। ११६. ७.११.

 ननु सुखबोधाय तत्त्वविवेकः क्रियत इति प्रतिज्ञा कथमुपपद्यते ? बोध- रूपायास्संविदो नित्यत्वप्रसाधनेन सिद्धरूपतया बोधायेति फलत्वोक्तेरसङ्गतेरित्या- शङ्कय आह, इयमिति ।

ज्ञानस्य आत्मत्वपरमानन्दत्वनिरूपणम् ।

इत्यमात्मा परानन्दः परप्रेमास्पदं यतः ।
मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥ ८॥

 इयं संविदेव आत्मा भवितुमर्हति, नित्यत्वे सति सत्यत्वसिद्धेः। जायतेऽस्ति वर्धते परिणमत्यपक्षीयते नश्यतीति षड्विकारराहित्यं नित्यत्वम्; तदेव सत्यत्व मपि। "यद्रूपेण यन्निश्चितं वस्तु तद्रूपं न व्यभिचरति तत्सत्यम्; यद्रूपेण यन्निश्चितं वस्तु तद्रूपं व्यभिचरति तदनृतमित्युच्यते" । एवं सति नित्यसत्यस्वप्र- काशस्वरूपसंविदभिन्नः आत्मेति सम्पन्नम्। स आत्मा परानन्दः निरतिशयसुख स्वरूपः । कुतः ? यतः परप्रेमास्पदम् निरतिशयप्रेम्णस्स्थानमात्मा भवति। आत्मनः