पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३०३
कल्याणपीयूषव्याख्यासमेता

निर्बन्धस्तत्त्वविद्याया इन्द्रजालत्वसंस्मृतौ ।
प्रारब्धस्याऽऽग्रहो भोगे जीवस्य सुखदुःखयोः ॥ १७५॥

 इन्द्रजालत्वसंस्मृतौ इन्द्रजालस्येव जगतो मिथ्यात्वस्य स्मृतावेव तत्त्वविद्याया निर्बन्धोऽभिनिवेशः । जीवस्य सुखदुःखयोर्भोगे प्रारब्धस्याग्रहः आसमन्तात् ग्रहः ग्रहणमभिनिवेश इत्यर्थः । जगन्मिथ्यात्वस्मरणे तत्वविद्यायाः कारणत्वम् । सुखदुःखानुभवे प्रारब्धस्य कारणत्वम् । एवं च तयोः कारणयोरविरोधेन युगपत्समवधानसंभवाद्युगपत्तत्कार्यभूते भोगसंस्मृती संभवत एवेति तात्पर्यम् ॥ १७५॥

 कारणयोरविरोधमनुभवेन दर्शयति, विद्येति ।

विद्यारब्धे विरुध्येते न भिन्नविषयत्वतः ।
जानद्भिरप्यैन्द्रजालविनोदो दृश्यते ॥ १७६ ॥

 सुलभा पदयोजना। मिथ्येति जानद्भिर्विनोदाकान्क्षिभिः प्रेक्षकैर्ज्ञानकाले इन्द्रजालचमत्काररूपो भोगोऽनुभूयत एवेति भावः ॥ १७६ ॥

 एवं विद्यारब्धे अविरुद्धे, यदि विद्यते विरोध, आरब्धं कर्म विद्याबाधकं आहोस्वित् विद्या आरब्धबाधिका? नाद्य इत्याह, जगदिति ।

जगत्सत्यत्वमापाद्य प्रारब्धं भोजयेद्यदि ।
तदा विरोधि विद्याया भोगमात्रान्न सत्यता ॥ १७७ ॥

 प्रारब्धं कर्म जगत्सत्यत्वमापाद्य जगसत्यत्वज्ञानं जनयित्वा जीवं सुख-दुःखे भोजयेद्यदि अनुभावयेच्चेत् तदा प्रारब्धः विद्यायाः विरोधि बाधकं स्यात् । भोगस्य सत्यत्वज्ञानानुपेक्षणात्सत्यत्वापादकत्वं न सिध्यति । एवं च सत्यत्वापाद- कत्वनियमाभावाद्भोगस्सत्यतानुमापको न भवतीत्याह, भोगमात्रादिति । भोगमात्रात् मोगविषयो भवतीत्येतन्मात्रहेतुना तस्य भोगजातस्य सत्यता नापद्यत इत्यर्थः। जगत्सत्यं, भोग्यत्वादित्यनुमानं जगतः सत्यत्वं स्थापयितुं न समर्थम्, तत्र हेतोरै- न्द्रजालिकादौ व्यभिचारात् ॥१७७ ॥